त्सुतो भीष्मः मरुति प्रलयमारते भुवं चलयति कम्पयति सति क्षुभितस्योद्वेलस्याम्बुधेर्नादमनुकुर्वत्तद्वद्गभीरं वच आह स्म उवाच । 'लट् से' (३।२।११८) इति भूतार्थे लट् । 'बुवः पञ्चानामादित आहो बुवः' (३।४।८४) इति णल्याहादेशः । यद्यपि 'न पादादौ खल्वादयः' इत्याह वामनः तथापि कविप्रौढ्या स्मशब्दस्य पादादौ प्रयोगः । उपमालंकारः ॥ ४४ ॥
उक्तमेवार्थ वक्तुराशयाविष्कारार्थमाह--
अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।
प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः॥४५।।
अथेति ॥ अथ शिशुपालप्रलापानन्तरं मुररिपुतिरस्करणेन हरिनिन्दया क्षुभितः कलुषमना जाह्नवीसुतो गाङ्गेयः गौरवेण धैर्येण तमात्मनः परिवादं 'काममयं वृथापलित' इत्यादि स्वनिन्दामपरिगणयन् इति वक्ष्यमाणप्रकारेण वाचं प्राह स्म प्रोक्तवान् । गतमेतत् । धीराः स्वनिन्दामेव सहन्ते, न गुरुदेवादिनिन्दामिति भावः । अत्र क्षोभस्य विशेषणगत्या वचनहेतुत्वाकाव्यलिङ्गभेदः ॥४५॥
विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।
यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥४६॥
विहितमिति ॥ मया अद्य सदसि सभायां विहितं कृतं इदमच्युतार्चनं यस्यापमृषितमतितिक्षितम् । असोढमित्यर्थः । 'मृष तितिक्षायाम्' इति धातोः कर्मणि क्तः । उपसर्गवशाद्विपरीतार्थता । अत एव मृषस्तितिक्षायामेव कित्त्वनिषेधादतितिक्षार्थत्वान्न गुणः । 'मतिबुद्धिपूजार्थेभ्यश्च' (३।२।१८८) इति चकाराद्वर्तमानार्थता । 'क्तस्य च वर्तमाने' (२।३।६७) इति षष्ठी । सोऽपम्रष्टा पुरुषश्चापं नमयतु आरोपयतु । सर्वभूभृतां मिषतामिति भावः । शिरस्ययं चरणः कृतो न्यस्तः । अयमिति भूमौ पात्यमानस्य चरणस्य हस्तेन निर्देशः । अयं कोपामर्ष इत्यनुसंधेयम् ॥ ४६ ॥
इति भीष्मभाषितवचोऽर्थमधिगतवतामिव क्षणात् ।
क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः॥४७॥
इतीति ॥ इतीत्थं भीष्मेण भाषितस्योक्तस्य वचसोऽर्थमभिधेयं शिरसि पादन्यासरूपं क्षणादधिगतवताम् । प्राप्तवतामिव सतामित्यर्थः । शिशुपालस्य पक्षा ये पृथिवीभृतो राजानस्तेषामसौ गणोऽतिमानं क्षोभं क्रोधं विकारमगमत् । एतेनैषामात्मविनाशावसायी रौद्रस्थायी क्रोधः प्रादुरभूदित्युक्तम् । उत्प्रेक्षा ॥४७॥
अथैषां दशभिर्गात्रारम्भान्क्रोधानुभावानाह-
शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।
बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम्॥४८॥
शितीत्यादि ॥ क्रुधा क्रोधेन अरुणीकृतमत एव शिती श्यामे ये तारके