पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८५
पञ्चदशः सर्गः ।

 कटुनेति ॥ माधवः । कटुनापि चैद्यवचनेन विकृतिं नागमत् । गमेर्लुङि "पुषादि-' (३।१।५५) इति च्लेरङादेशः । तथा हि-सत्ये नियतवचसमस्खलितवचसं सत्यसंधं सुजनं के जनाः वचसा । तीव्रणापीति भावः । चलयितुमीशते शक्नुवन्ति । न केऽपीत्यर्थः । 'सहिष्ये शतमागांसि' (२।१०८) इति प्रतिज्ञाभङ्गभयादसहतेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४०॥

 न च तं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः।
 शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनोऽनुवर्तते ॥४॥

 न चेति ॥ किंचेति चार्थः । तदा तत्काले इतीत्थं शपमानमाक्रोशन्तमपि । 'शपतेराक्रोशे' इति भट्टमल्लः । तं चैद्यं यदुनृपा यादवाः शौरेः कृष्णस्य समयेन संकेतेन निगृहीतधियो निरुद्धबुद्धयः सन्तो न प्रचुक्रुधुः । 'क्रुधद्रुहोरुपसृष्टयोः कर्म' (१।४।३८) इति कर्मत्वम् । तथा हि-जनो लोकः प्रभुचित्तमेवानुवर्तते । शौरिसंकेतनिरुद्धबुद्धेर्यदुविशेषणगत्या क्रोधाभावहेतुत्वात् काव्यलिङ्गमर्थान्तरन्यासेन संकीर्यते ॥४१॥

 विहितागसो मुहुरलङ्घ्यनिजवचनदामसंयतः ।
 तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः॥४२॥

 विहितेति ॥ अलङ्घयेन निजवचनदाम्ना स्वप्रतिज्ञापाशेन संयतो बद्धोऽच्युतः मुहुर्विहितागसः पूर्वं सहस्रशः कृतापराधस्यापि तस्य चैद्यस्यापराधं स एव प्रथमो यस्मिन्कर्मणि तत्प्रथमं यथा तथा कतिथः । कतीनां पूरण इति 'तस्य पूरणे डट्' (५।२।४८) इति डट्प्रत्ययः । 'षट्कतिकतिपयचतुरां थुक्' (५।२।५१) इति थुगागमः । मनसा समाख्यत् गणनां चकार । 'अस्यतिवक्तिख्यातिभ्योऽङ्' (३।१।५२) इति च्लेरङादेशः । अत्र प्रतिज्ञापाशबन्धनस्य विशेषणगत्या प्राचीनापराधानन्त्येऽपि तात्कालिकापराधगणनाहेतुत्वात् काव्यलिङ्गभेदः॥ ४२ ॥

 स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।
 स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥४३॥

 स्मृतीति ॥ विद्विषश्चैद्यस्य संबन्धि समस्तमपकृतमपकारजातम् । नपुंसके भावे क्तः । तस्य हरेः कृष्णस्य स्मृतिपथं नेयाय न प्राप । न तमपकारं सस्मारेत्यर्थः । अर्थान्तरं न्यस्यति-अधिगतगुणस्मरणाः परिचितोपकारस्मृतय उत्तमाः सजना अखिलं दोषमपकारं स्मर्तुं न पटवः खलु । नालं भवन्तीत्यर्थः । 'पर्याप्तिवचनेष्वलमर्थेषु' (३।४।६६) इति तुमुन्प्रत्ययः । उपकारमेव स्मरन्ति साधवो नापकारमित्यर्थः ॥ ४३ ॥

 नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।
 स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः॥४४॥

 नृपताविति ॥ अथ नृपतौ चेदिपे शौरिं हरिमधिक्षिपति सति सुरसरि


शिशु० ३३