'न माङयोगे' (६।४।७४) इत्यडभावः । अवकर्ण्य अनादरेण श्रुत्वा सहसा संसदः सदसो निरियाय निर्ययौ । अमर्षादेवेति भावः ॥ ६७ ॥
गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।
शान्तिमहितमनसो जननीखसुरात्मजाय चुकुपुर्न पाण्डवाः॥ ६८॥
गृहमिति ॥ निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसंपन्नाः । परच्छन्दानुवर्तिन इत्यर्थः । 'त्रिषु वाक्कुशलावामपरच्छन्दानुवर्तिषु । दक्षिणा' इति वैजयन्ती । किंच क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किंच गृहमागताय । अभ्यागतायेत्यर्थः । किंच जननीस्वसुर्मातृष्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपीत्यर्थः । न चुकुपुः न चुकुधुः । सद्योवध्यस्यापि तस्याभ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वाद्दाक्षिण्यात्कृपया च कथमपि जिघांसां न चक्रुरित्यर्थः । 'क्रुधद्रुह-' (१॥४॥३७) इत्यादिना संप्रदानत्वाच्चतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच्च परिकरः काव्यलिङ्गे सति सापेक्षत्वात्संकीर्यते ॥ ६८॥
चलितं ततोऽनभिहतेच्छमवनिपतियज्ञभूमितः ।
तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ ६९ ॥
चलितमिति ॥ अथ चैद्यनिर्याणानन्तरं अवनीशसूनवस्तत्पक्षराजपुत्रास्ततस्तस्याः अवनिपतेर्युधिष्ठिरस्य यज्ञभूमितो यज्ञभूमेर्देवयजनात् । पञ्चम्यास्तसिल् । अनभिहतेच्छमप्रतिहतमनोरथं यथा तथा चलितं प्रस्थितं दमघोषसूनुं शिशुपालम् । याति परलोकमिति ययुः परलोकप्रापकोऽश्वमेधीयोऽश्वः । 'ययुरश्वोऽश्वमेधीयः' इत्यमरः । 'यो द्वे च' (उ० २१) इति यातेरौणादिक उक् द्वित्वं च । तं ययुमिव तूर्णमनुययुः । ययुरपि राजकै राजपुत्रैरन्वीयते । 'चतुःशता रक्षन्ति' इति श्रुतेः । अश्वमेधीयाश्वोपमया चैद्यस्य वध्यत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ६९॥
विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।
द्रष्टुमलघुरभसापतिता वनिताश्चकार न सकामचेतसः॥ ७० ॥
विशिखान्तराणीति ॥ स चैद्यः सपदि जवनैवेंगशालिभिर्वाजिभिरश्वैर्विशिखान्तराणि रथ्यान्तराणि । 'रथ्या प्रतोली विशिखा' इत्यमरः । अतिपपात अतिचक्राम । अत एव द्रष्टुमलघुरभसेनातिवेगेनापतिता आधावन्तीर्वनिताः सकामानि साभिलाषाणि चेतांसि चित्तवृत्तयो यासां ताः सकामचेतसः । सफलमनोरथा इत्यर्थः । न चकार । अतिशीघ्रलङ्घनान्न दर्शनावकाशस्तासामासीदित्यर्थः । अत एव वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ७० ॥
क्षणमीक्षितः पथि जनेन किमिदमिति जल्पता मिथः ।
प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥७१॥