पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८३
पञ्चदशः सर्गः ।

 स्तुतिस्तु-परमतमाशङ्क्य काकुप्रयोगेण न तदद्भुतम्, अपि त्वाश्चर्यमेव । तथेयं गवां सभाग्यता किम्, न स्वस्य सा । अयमेव स्वमहिम्ना बभरित्यर्थः ॥

 किमिवात्र चित्रमयमन्नमचलमहकल्पितं यदि ।
 प्राश निखिलमखिलेऽपि जगत्युदरं गते बहुभुजोऽस्य न व्यथा ॥२९॥

 किमिवेति ॥ अयं हरिरचलमहकल्पितं पर्वतोत्सवकृतमन्नं यदि प्राश प्रकर्षण बुभुजे तत्किमिवात्र चित्रमाश्चर्यम् । यतोऽस्य बहुभुजः बह्वाहारस्य सकलेऽपि जगत्युदरं प्राप्ते न व्यथा पीडा अजीर्णत्वात् । अतश्च यः कुक्षिंभरत्वात्सर्वमेव जिघत्सति तस्यौदनमात्रभोजनात्को विस्मयः । इत्यामंभरित्वकथनेन निन्दा ॥

 स्तुतिस्तु-अस्यान्नादनात्को विस्मयः । यतोऽस्य जगन्निवासस्य सर्वेषु जगसूदरस्थितेषु न व्यथा । बहु भुनक्तीति बहुभुक् निखिलभुवनपालकः । यदि वा बहवो भुजा यस्य स बहुभुजोऽयम् । पूर्वत्र तु बहु भुङ्क्ते इति बहुभुक् । प्राशेत्यत्राश्नातेर्लिट् ॥ २९ ॥

 अमुना करेण पृथुदन्तमुसलमुदखानि दन्तिनः ।
 तेन यदवधि स एव पुनर्बलशालिनां क इव तत्र विस्मयः ॥३०॥

 अमुनेति ॥ अमुना हरिणा दन्तिनः कुवलयापीडस्य यत्पृथुदन्तमुसलं करेणोदपाटि उत्खातम् । तेनोत्खातेन योऽसौ हस्ती अवधि हतः तत्र बलशालिनां क इव विस्मयः । न युक्तस्तत्र विस्मयः । मर्महननाद्धि शिशुरपि मारयति । इति निन्दा ॥

 स्तुतिस्तु काक्वा गम्यते-को विस्मयः । विस्मय एवेत्यर्थः । स तु हस्तिनो हन्तुमशक्यत्वादिति भावः । यदुक्तम् – 'एकः क्रुद्धो गजो हन्ति षट्सहस्राणि वाजिनाम्' । अवधीति कर्मणि लकारः च्लेश्चिण् अकारलोपः॥ ३०॥

 शिशुरेव शिक्षितनियुद्धकरणमकृतक्रियः स्वयम् ।
 मल्लमलघुकठिनांसतटं न्यवधीद्यदेष तददृष्टकारितम् ।। ३१ ॥

 शिशुरिति ॥ तथा एष हरिः शिशुरेव बालः सन् यन्मल्लं चाणूराख्यं न्यवधीज्जधान तददृष्टकारितं दैवविहितम् । विधिवशाद्ध्य बलोऽपि बलीयांसमभिभवति । तदेव बलवत्वमाह-कीदृशं मल्लम् । शिक्षितानि नियुद्धकरणानि बाहुयुद्धक्रियाः येन तं शिक्षितनियुद्धकरणं युद्धज्ञं, तथा अलघु पीनं कठिनमंसतटं यस्य तम् । एष तु स्वयमकृतक्रियोऽशिक्षितकरणः । यतः शिशुः इति निन्दा ॥

 स्तुतिस्तु-पूर्ववत्काक्वा । तत्किमदृष्टकारितं नैतद्दैवविजृम्भितम् , अपि त्वस्यैवायं महिमेत्यर्थः ॥ ३१ ॥

 यदयुध्यमानमपि सन्तमुपहितसुरौघसाध्वसम् ।
 कंसमभियमयमभ्यभवत्समुदा जनेन तदपि प्रशंस्यते ॥ ३२ ॥

 यदिति ॥ यदयमयुध्यमानं कंसं स्वजनमप्यभ्यभवदाचकर्ष तदपि समुदा