पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
शिशुपालवधे

इति नाम जगति अगमत्याप । कीदृगेषः-वने तोये महति सर्वलोकव्यापिनि विगतजने विहरन् । तथा गां पृथ्वी गोपस्तद्भावं बिभ्रत् ॥ २५॥

 अविमृश्य गोवधसमुत्थमयमघममीमद्रुषा ।
 रिष्टमुपगु समुपोढमदं यदसौ किलासुर इति प्रमाष्टिं तत् ॥२६॥

 अविमृश्येति ॥ अयं गोवधसमुत्थं तन्मारणोद्भवं पापमविमृश्यागणयित्वा यद्रुषा कोपेन रिष्टमनड्वाहममीमरदवधीत् तदकार्यम् । असौ पापी असुर इति किल प्रमार्ष्टि नाशयति । दान्तरूपी असुरो मया हतो न तु गौरिति लोकस्य परिशुध्यति । किलालीके । तत्त्वतस्त्वसौ गौरेव, अयं च गोधातीत्यर्थः । कीदृशं रिष्टम् । उपगु गवां समीपे समुपोढमदं धृतहर्षम् । सुरभीः कामयमानमित्यर्थः । अतश्च सुरतासक्तदान्तवधपातकित्वान्नायं पूजाहः इति निन्दा ॥

 स्तुतिस्तु-किलशब्दस्य परमार्थत्वात् । यदसावुपगु गोनिकटे रिष्मतृणेट्र् तदसौ किलासुर इति प्रमार्ष्टि असुर एवानेन हत इत्यर्थः । कीदृशं तम् । अविमृश्यश्चिन्तयितुमशक्यो गोवधस्तत्र समुत्थ उत्थानमुद्यमो यस्य तमविमृश्यगोवधसमुत्थं यतोऽघं पापिनम् । अघमस्यास्तीति कृत्वा । तथा समुपोढमदं तदर्पम् । अतश्च गोवधसमुत्थस्य दर्पिष्ठस्य पापमतेर्दानवस्य वधाद्भगवतो महती नुतिरेव । अविमृश्येति ल्यप् । 'ऋदुपधात्-' (३।१।११०) इति क्यप् । अमीमरदिति मारयतेर्लुङ् चङ् । प्रमार्ष्टीति मृजेर्वृद्धिः ॥ २६॥

 मुखकन्दरान्तरगतोऽपि विकटदशनेन केशिना ।
 नास्य सपदि यदखादि भुजस्तदहो तिरश्चि सहजैव मूढता ॥२७॥

 मुखेति ॥ अस्य केशिनाम्ना अश्वेन यद्भुजो नाखादि न जग्धः तदहो तिरश्चि तिर्यक्षु सहजैव स्वाभाविक्येव मूढता अज्ञत्वं, तिर्यक्त्वात् । मूर्खेण तेन न भक्षितो न त्वस्य कापि शक्तिरिति वाक्यार्थः । कदाचिदप्राप्तोऽसौ भवेन्नेत्याह- आस्यदरीविवरप्राप्तः । कदाचिद्दन्ताभावः स्यादित्याह-विकटदशनेन दन्तुरेणापि सपदि अस्य प्राध्यनन्तरम् । अहो विषादे॥

 स्तुतिरत्र-परमतमाशङ्कय काकुप्रयोगेण । यदस्य केशिना दैत्येन भुजो नाखादि तक्तिं, तिरश्चि सहजैव मूढता न त्वस्य माहात्म्यमित्यर्थः । एतस्यैव ह्येवमसौ शक्तिः । न स तात्त्विकोऽर्थः । अहोशब्दः परस्योल्लुण्ठनाय । तिरश्चीति सप्तमी ॥

 यदुदस्य बाहुमयमेकमधृत गिरिमद्भुतं न तत् ।
 भूरि सलिलमविषह्यमियं जलदे विमुञ्चति गवां सभाग्यता ॥२८॥

 यदिति ॥ मेघे समारुतं दुःसहं प्रभूतं वारि वर्षति यदयं हरिरेकं भुजमुत्क्षिप्य गिरिं गोवर्धनमधृत दध्रे तन्नाद्भुतं नाश्चर्यम् । इयं गवां सभाग्यता पुण्यवत्त्वम् । गवां महिम्नासौ धृतो न त्वेतस्य काचिच्छक्तिरित्यर्थः । इति निन्दा॥