स्तुतिस्तु-एष भगवांश्चलता पादयुगलेन गुरु शकटमीषदेवास्पृशत् । अथ चोदलसत्परिवृत्तम् । यत् एतेन दैवेन भगवता कलितं प्रेरितम् । अथेति विस्मये । ईषत्स्पर्शमात्राकिल भङ्गो न युक्तः । शकटशब्दोऽस्त्रीलिङ्गः ॥ २२ ॥
स्नुवतामुना स्तनयुगेन जनितजननीजनादरा ।
स्त्रीति सदयमविधाय मनस्तदकारि साधु यदधाति पूतना।।२३।।
स्नुवतेति ॥ अमुना यत् पूतना राक्षसी स्त्री इति सदयं मनः अकृत्वा अघाति हता तत्साध्वकारि युक्तं कृतमिति काक्वा प्रयोजने, नैव साधु कृतमित्यर्थः । कीदृशी सा । स्तुवता क्षीरं स्रवता स्तनयुगेन कृतो जननीजनादरो मातृस्नेहो यया, अतश्च मातृघात्येवायम् । इति निन्दा ॥
स्तुतिस्तु–यदमुना स्त्रुवता स्तनयुगेन कृतमातृस्नेहापि पूतना राक्षसी स्त्रीति मनः सदयमकृत्वा हता तत्साध्वकारि युक्तमेवानुष्ठितमिति स्पष्ट एवार्थः । सा हि राक्षसी स्तनाभ्यां सविषं क्षीरं स्रवन्ती तन्मारणार्थमेवागमदित्यागमार्थः । निष्कारणवधोद्यतस्य वधे कथमधर्मः स्यात् ॥ २३ ॥
अभनक्तरू कथमिवैष कृतधरणिरिङ्गणः क्षणात् ।
बाढमिदमपि न बालकृतं ननु देवताविधिरयं विजृम्भते ॥२४॥
अभनगिति ॥ कृतधरणिरिङ्गणो विहितोर्वीगतिः स कथमिव केन प्रकारेण क्षणेनैव तरू अर्जुनाख्यौ बाढं भृशमभनग्बभञ्ज । न संभावयाम एतदित्यर्थः । ननु सर्वत्रैव तेनैव भिन्नाविति प्रतीतिः, तत्कथं भवतो न संभावनेत्याह-इदमपि न बालकृतं न शिशुकर्म । ननु देवताविधिरयं विजृम्भते विलसति । केनाप्यदृष्टेन देवेन तत्कृतं न त्वनेन । यस्य हि गमनमात्रे न शक्तिः स कथममानुषं कर्म कुर्यादिति भावः । ननु अमर्षे । न केवलं शकटभङ्गो देवताविधिर्यावदयमपीत्यपिशब्दार्थः-। इति निन्दा ॥
स्तुतिस्तु–यदेष कृतधरणिरिङ्गणः कथमिवावस्त्विव क्षणादर्जुनौ बभञ्ज इदमपि न बालकृतम् । नन्वयं देवताविधिरुज्जृम्भते । एतस्य देवरूपत्वं देवत्वमाश्रित्यैतदेतेन कृतम्, नतु तत्त्वतो बालेनेत्यर्थः । ननुराभिमुख्ये । अभनगिति भोर्लङि रूपम् ॥ २४ ॥
विहरन्वने विजन एव महति दधदेष गोपताम् ।
नाम जगति मधुसूदन इत्यगमद्धतेन मधुना महीयसा ॥२५॥
विहरनिति ॥ एष महति विशाले विजने वनेऽरण्ये गोपरूपो विहरन्वृहता मधुना माक्षिकपटलेन हतेन जगति मधुसूदन इति नाम प्राप्तवान् । वने मधु सूदितवान् नतु मधुनामानं दैत्यम् । इति निन्दा ॥
स्तुतिस्तु--एष कृष्ण एव महीयसा बलवत्तरेण मधुना दैत्येन हतेन मधुसूदन