पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
शिशुपालवधे

 स्तुतिस्तु-एष तुङ्गं मानं प्रमाणं हित्वा नीचतां खर्वत्वं चावलम्ब्य । पुरा पूर्वं परेणोत्कृष्टेन बलिना वैरोचनिना सह संप्रयुज्यते संप्रयुयुजे । यतः स्वस्य ज्ञातेरिन्द्रस्य योऽर्थः शत्रुवशीकरणलक्षणस्तत्र पटुः कुशलः । इन्द्रप्रीतये वामनरूपत्वमवलम्ब्यैष भगवान्बलिं बबन्धेत्यर्थः ॥ १९॥

 क्रमते नमो रभसयैव विरचयति विश्वरूपताम् ।
 सर्वमतिशयगतं कुरुते स्फुटमिन्द्रजालमिदमेष मायया ॥२०॥

 क्रमत इति ॥ एष कृष्णः स्फुटं नूनं इदमिन्द्रजालसमुद्भूतं मायया हेतुभूतया कुरुते । किमित्याह-रभसया रभसेन युद्धादौ नभः क्रमते आरोहति । वयः पक्षिणः, श्वानः कुक्कुराः तद्रूपा मृगाः तद्भावं विरचयति । यदि वा विश्वरूपतां नानारूपत्वम् । तथा सर्वमतिशयगतं विशेषप्राप्तं कुरुते । तात्त्विकोऽस्य व्यव- हारो न कश्चित् । इति निन्दा ॥

 नुतिस्तु–इदमीदृक् स्फुटमेष भगवान्मायया बुद्ध्या इन्द्रजालं कुरुते । इन्द्रजालमिवेन्द्रजालं भ्रमकारित्वात् । तदेवाह-नभः क्रमते बलिबन्धनार्थं विश्वरूपत्वं सर्वदेवमयत्वं विरचयति । सर्वं च जगदतिशयगतं प्राप्तविशेषं कुरुते । कीदृश्या मायया । रभसमौत्सुक्यं करोतीति रभसा तया रभसया। क्रमते इति, 'अनुपसर्गाद्वा' (१॥३॥४३) इत्यात्मनेपदम् ॥ २० ॥

 किल रावणारिरयमेव किमिदमियदेव कथ्यते ।
 सत्त्वमतिबलमधिद्युति यत्तदशेषमेष इति धृष्टमुच्यताम् ॥२१॥

 किलेति ॥ अयं हरिः किल रावणारिरिति । एतेन दशास्यो हत इति यदेवैतस्वल्पमात्रमपि किमिति कस्मादुच्यते । अतिबलं महाशक्ति अधिद्युति महातेजश्च यत्सत्त्वं प्राणी तत्सर्वमेष एवेति धृष्टं निःशङ्कमुच्यताम् । न ह्यलीकस्यान्तो भवतीति भावः । अतश्च येनासत्यं वाच्यं स बढेव कस्मान्नाह । तस्मान्नैतेन किंचिदपि कृतमिति वाक्यार्थः । इति निन्दा ॥

 स्तुतिस्तु-अयं किल रावणारिरेवेति किमेतावदेवोच्यते । यस्माद्यदतिबलमधिद्युति च सत्त्वं तत्सर्वमेष इति धृष्टं निःशङ्कमुच्यताम् । उक्तं च किलागमे- ’यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम् ॥' (भ.गी. १०।४१) इति ॥ २१ ॥

 यश्च बाल्ये शकटमेष एव चिक्षेपेत्युच्यते तदप्यसत्यमिति वक्तुमाह-

 चलतैष पादयुगलेन गुरु शकटमीपदस्पृशत् ।
 दैवकलितमथ चोदलसद्दलितोरुभाण्डचयमात्मनैव तत् ॥२२॥

 चलतेति ॥ एष वै चलद्भ्यां चरणाभ्यां गुरु शकटं किंचिदस्पाक्षीत् । तच्च दैवकलितं दैवचोदितं स्वयमेवोदलसदपप्तत् । न त्वेतस्यात्र किंचित्पौरुषम् । दलितः स्फुटित उरुर्महान्भाण्डानां दधिघृतकटादीनां चयो राशिर्यत्र । इति निन्दा ॥