पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
शिशुपालवधे

 नुतिरपि-एष त्रिमूर्तिः राजसतया रजोगुणेनाश्रितः सन् ब्रह्मरूपेण जंगदुदये प्रजासर्गे दर्शितोद्यमः । तथा सत्त्वेन गुणेन हिते रक्षायां विहितचित्तो विष्णुरूपेण। तथा तमसा गुणेनावृतः सन् सहसैव सर्वं व्यक्तं रुद्ररूपेण नाशयति ॥ १३ ॥

 अभिहन्यते यदभिहन्ति परितपति यच्च तप्यते ।
 नास्य भवति वचनीयमिदं चपलात्मिका प्रकृतिरेव हीदृशी॥१४॥

 अभीति ॥ यदेष हरिरन्येनाभिहन्यते ताड्यते यच्चैषोऽन्यानभिहन्ति । तथा यत्परितपति बाधते । यच्च तप्यते उपश्रूयते । अतोऽस्य वचनीयता वाच्यता भवति । यतोऽस्यैवंविधैव चपलात्मिका अविनीता प्रकृतिः स्वभावः । स्वभावाञ्चपलस्त्वयोग्यतामर्हति । इति क्षेपः ॥

 स्तुतिस्तु-अस्य परमात्मनो यथोक्तं वचनीयं वचनं न भवति न प्रवर्तते । 'एष हन्ति हन्यते तपति परितप्यते च' इति न वाच्यमित्यर्थः । यत ईदृशी चपलात्मिकाऽनेकरूपा प्रकृतिर्बुद्धिः । नत्वेषः । हननादिकं तमसा भवति । पुरुषश्च निर्गुण इत्यर्थः । उक्तं च-'य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥' (भ. गी. २।१९) इति । 'तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः॥' तपिः सकर्मकोऽपि । शारीरं दुःखमभिघातः।मानसं तु परितापः॥

 अतिसत्त्वयुक्त इति पुंभिरयमतिशयेन वर्ण्यते ।
 सूक्ष्ममतिभिरथ चापगते समुपैति नाल्पमपि सत्त्वसंकरम् ॥१५॥

 अतीति ॥ एष सूक्ष्ममतिभिः स्वल्पप्रज्ञैर्नृभिः महता सत्त्वेन धैर्येण इति सुष्टु वर्ण्यते । अथानन्तरं चापगते प्राप्तचापे गृहीतधनुषि कस्मिंश्चित्स्वल्पमपि सत्त्वसंकरं पौरुषलेशं न भजति पलायनादिना । परेणोत्तब्धस्यास्य सत्त्वलेशोऽपि न लभ्यत इत्यर्थः । तस्मादयुक्तं च तैर्वर्ण्यत इति भावः । इति निन्दा ॥

 स्तुतिस्तु-चापं गतश्चापगतः । यद्वा चापस्य गतं प्राप्तिश्चापगतं तस्मिंश्चापगते । धनुःसंनिधाने सतीत्यर्थः । अथ च सबीजनिर्बोजसमाधौ पुंभियोगिभिः 'सत्वेन गुणेन युक्त' इति कथ्यते । सूक्ष्ममतिभिः कुशाग्रीयबुद्धिभिर्बहुदृश्वभिरपगते ज्ञाते सति निर्बीजसमाधौ स्वल्पमपि सत्यसंकरं नोपैति । निर्गुणो हि पुरुषः । अथ चेति विस्मये ॥ १५॥

 प्रलयं परस्य महतोऽपि नियतमिह निःसुखे गुणाः ।
 यान्ति जगदपि सदोषमदः खरुचैव पश्यति गुणान्द्विपन्नयम् ॥१६॥

 प्रलयमिति ॥ परस्यान्यस्य महतोऽपि मुख्यस्यापीह कृष्णे गुणाः शौर्यादयो नियतमवश्यं प्रलयं यान्ति नश्यन्ति । नैष कस्यचिद्गुणानङ्गीकरोतीत्यर्थः । अविद्यमानं सुखमस्मादिति निःसुखः । गुणापहाराद्धि कुतः सुखम् । यद्वा अविद्यमानं सुखमस्मादिति निःसुखः । अत एव ते नाशमत्र यान्ति । अतश्चायं गुणा