पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७७
पञ्चदशः सर्गः ।

 सुकृतोऽपि सेवकजनस्य बहुदिवसखिनचेतसः ।
 सर्वजनविहितनिर्विदयं सकृदेव दर्शनमुपैति कस्यचित् ॥ ११॥

 सुकृत इति ॥ अयं सुकृतोऽप्युपकारकस्याप्याश्रितजनस्य सकृदेकवारमेव दर्शनमुपैति दर्शनं ददाति कस्यचित्, न सर्वस्य । किंभूतः । सर्वजनविहितनिविद् सर्वजनस्य विहिता निर्वित् खेदो येन । कीदृशस्य जनस्य । बहुदिवसखिन्नचेतसः बहुभिर्दिवसैः खिन्नं चेतो यस्य तस्य । चिरकालमेवोद्विग्नचित्तस्येत्यर्थः । इति निन्दा ॥

 स्तुतिस्तु-अयं कस्यचिदेव सेवकजनस्य भक्तलोकस्य सकृदेव दर्शनमुपैति । नहि क्षेत्रज्ञः सर्वस्य सदैव । कीदृशस्य । सुकृतः पुण्यकृतः । तथा बहुभिर्दिवसैर्भूयसा कालेन खिन्नचेतसः क्षुण्णमनसः । दीर्घेण योगेन श्रान्तचेतस इत्यर्थः । नह्यनभ्यासगम्य ईश्वरः । अत एव सर्वजनविहितनिर्वेदः । श्रेयस्यपि चिरकालमभ्यसनो निर्विद्यते । यदि वा सर्वेषु जनेषु विगतौ हितनिवेदौ यस्य स सर्वजनविहितनिर्विद् । नास्य कश्चित्प्रियो न च द्वेष्य इत्यर्थः । यदि वा सर्वे जना यत्र स सर्वजनः, विगते हितनिर्विदौ सुखदुःखे यस्य स विहितनिर्वित् । ततः कर्मधारयः । सर्वजनस्य विहिता निर्वित् निर्वाणो येनेत्यन्ये । आश्रितजनं संसारान्मोचयतीत्यर्थः । शोभनं करोति सुकृदुपकारी, पुण्यकृञ्च । निर्विन्निर्वेदो निर्वाणं च ॥११॥

 स्वजने सखिष्वनुगतेषु नियतमनुरागवत्स्वपि ।
 स्नेहममृदुहृदयः क्षपयन्निरपेक्ष एष समुपैति निर्वृतिम् ॥१२॥

 स्वजन इति ॥ एष बन्धुमित्राश्रितेषु प्रीतिं नाशयन्निर्वृतिं सदा समुपैति सुखं प्रामोति । सर्वत्रैव वैरायमाणः सुखायत इत्यर्थः । कदाचिदेते विरक्ताः स्युरित्याह–अनुरक्तेष्विति कथं तर्हि निःस्नेह इत्याह-यतो हृदयेऽमृदुहृदयः क्रूरचित्तः । तथा निरपेक्षो निर्विवेकः । इति निन्दा ॥

 स्तुतिस्तु -एष स्वजनादिषु अनुरागवत्स्वपि स्नेहं क्षपयंस्तृष्णां तनूकुर्वन्निवृतिं समुपैति निर्वाणं याति । तृष्णाक्षयात्किल मुक्तिः । अमृदुहृदयः नार्द्रभावो वीतरागत्वात् । यदि वा अमृदु दुर्बोधं हृदयं स्वरूपं यस्य । निरपेक्षो निःसङ्गः । क्षपिर्धातुप्वपठितोऽपि क्रियावाचित्वात्खचिमिलोकस्यार्घत्वादिक(?)वद्धातुरेव ॥ १२॥

 क्षणमेष राजसतयैव जगदुदयदर्शितोद्यतिः ।
 सत्वहितकृतमतिः सहसा तमसा विनाशयति सर्वमावृतः ॥१३॥

 क्षणमिति ॥ एष राजसतया चापलेन क्षणं जगदुदये लोकहिते दर्शितोधतिर्दर्शितोद्यम इति क्रिया । राजसिकत्वेन क्षणमुपकुरुते इत्यर्थः । तमसा तु मोहेन पुनरनन्तरमावृतत्वादहितकृतमतिरुपद्रविहितबुद्धिः सन् सहसैव सर्वं सत् सुकृतं विनाशयति । यदेव पूर्वमुपकृतं तदेव मोहयन्नाशयतीत्यर्थः । सत् सुकृतम् । तु भिन्नक्रमः । इति गर्हा ।