पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७६
शिशुपालवधे

स्तमांसि प्रधानम् । तथा दुःखं जननमरणादिकं सदा प्राप्तस्य । सर्वं हि बुद्धिरनुभवति न पुरुषः ॥७॥

 खयमक्रियः कुटिलमेष तृणमपि विधातुमक्षमः ।
 भोक्तुमविरतमलज्जतया फलमीहते परकृतय कर्मणः ॥ ८॥

 स्वयमिति ॥ एष देवः परकृतस्यान्यनिष्पादितस्य कर्मणः क्रियायाः फलं भोक्तुमीहते वाञ्छति । कथम् । अलज्जतया निस्त्रपत्वेन । कदाचिदैश्वर्यादेवं स्यादित्याह- आत्मना तृणमपि कुटिलं कर्तुमक्षमोऽसमर्थोऽनीशः । यतोऽक्रियोऽलसः । अशक्तया स्वयं निष्क्रियः पराधीनोऽन्यदत्तेन पिण्डेन जीवति । इति निन्दा ॥

 अथ च वाक्यार्थपर्यालोचनया स्तुतिः-एष भगवान्परजनितस्य बुद्धिकृतस्य कर्मणः शुभाशुभस्य फलं सुखदुःखात्मकं भोक्तुमीहते । आत्मा हि फलभागीति सांख्याः । कीदृगेष इति पुरुषस्य स्वरूपमाह-स्वयमक्रियो निष्कर्मा । तथा तृणमपि कुटिलं कर्तुमनीशः । निर्लज्जत्वं निर्गुणत्वात् ॥ ८॥

 य इमं समाश्रयति कश्चिदुदयविपदोनिराकुलम् ।
 तस्य भवति जगतीह कुतः पुनरुद्भवो विकरणत्वमेयुषः॥९॥

 य इति ॥ यः कश्चिन्मूर्ख इमं कृष्णं समाश्रयति सेवते तस्यास्मिन्संसारे कुतः पुनरुद्भवो भवति । नैव समुत्थानं भवतीत्यर्थः । य एनमुदये विपदि च निराकुलं निश्चिन्तमाश्रितस्य । यदि संपत्ततोऽस्य नैव सुखम् , यदि वा विपत्ततो नैव दुःखमित्यर्थः । तस्य कीदृशस्य । विकारणत्वं मृतिमेयुषः प्राप्तस्य । एतदाश्रयणात्स मृत एव । सामग्रीवैकल्यं वा विकरणत्वम् इति निन्दा ॥

 स्तुतिश्च -यः कश्चिद्योगी एनं परमात्मानं सेवते तस्य विकरणत्वमेयुषो नष्टदेहस्य पुनरिह कुत उद्भवो जन्म । मुक्त एवासावित्यर्थः । कीदृशम् । समुदय- विपदोनिराकुलमव्यग्रम् । अक्रियत्वात् । करणानीन्द्रियाणि । एयुष इत्यापूर्वस्येणः क्वसुः । 'उपेयिवान्-' (३।२।१०९) इत्यत्र हि उपसर्गनिर्देशोऽतन्त्रम् ॥९॥

 गुणवन्तमप्ययमपास जनमखिलमव्यवस्थितैः ।
 याति सुचिरमतिबालतया धृतिमेक एव परिवारितो जडैः॥१०॥

 गुणवन्त मिति ॥ अयं सर्वमेव गुणिनं जनमतिबालतयातिचापलेन हित्वा अव्यवस्थितैश्चपलैः जडैरज्ञैः परिवारितः सन्नजस्रमेक एव धृतिमेति प्रीयते । एतद्वर्जं नान्यो नाकलोकमपास्य गोपमध्ये रमते । इति निन्दा ॥

 स्तुतिस्तु-एष भगवान्बालतया बालरूपो भवन् जलैरद्भिः परिवारित आवृतः सुचिरं धृतिमेति । उक्तं च–'संभक्ष्य सर्वभूतानि कृत्वा चैकार्णवं जगत् । बालः स्वपिति यश्चैकस्तस्मै मायात्मने नमः ॥' (महाभारते शांतिप० ४७।५७) इति । कीदृशैर्जलैः । अव्यवस्थितैर्भरितसकलभुवनैः । किं कृत्वा धृतिं याति । गुणवन्तं सत्त्वाद्याश्रयं जनमपास्य क्षित्वा विनाश्य । सर्वं जनं संहृत्य बालरूपधरो जलमध्येऽयं शेते ॥ १० ॥