पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
पञ्चदशः सर्गः ।

भग्नवीर्यस्य तव रोहिणीतनयस्य बलापरनाम्रो बलभद्रस्य साहचर्यतः साहचर्यात् बलत्वं सिद्धम् । न तु स्वबलसंपत्त्येत्यर्थः। अहो इति कारणं विना कार्योदयादाश्चर्यम्| अत एव विभावनालंकारः । पुण्यैर्यशो लभ्यत इति भावः ॥ २४ ॥

 छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।
 प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति संप्रतीयसे ॥२५॥

 छलयन्निति ॥ इन्द्रजालं वेत्तीत्यैन्द्रजालिकः । अत एव कपटपटुर्वञ्चनाकुशलस्त्वमनृतेनासत्येन प्रजाश्छलयन्वञ्चयन् इष्टं सत्यं यस्य स इष्टसत्यः प्रियसत्य इति संप्रतीयसे सम्यक्ख्यायसे । 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः| नग्नजितो नग्नजिन्नाम्नो राज्ञः । सुतया सत्यभामया सत्यापराख्यया प्रीतिमानन्दमनुभवसि| सत्यायोगादिष्टसत्यो न तु सत्ययोगादिति भावः । अत्र हरेः सत्यसंबन्धेऽपि तदसंबन्धोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिः ॥ २५ ॥

 धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।
 चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥२६॥

 धृतवानिति ॥ आहवे युद्धे अरिचक्रादरिसैन्याद्भयेन चकितं संभ्रमं 'चकितं भयसंभ्रमः' इति सज्जनः । निजमात्मीयं चक्रं सैन्यं न धृतवान्नावलम्बितवान्| न रक्षितवानित्यर्थः। किंतु चक्रधर इति भुवनेषु रूढये प्रसिद्धये । अदः इदं रथाङ्गं चक्रापराख्यं सततं बिभर्षि दधासि । वृथाभारमिति भावः । 'चक्र सैन्यरथाङ्गयोः' इति हेमसज्जनौ । अयोविकारधरः चक्रधरो भवान्नारिभीतिचक्रधारकत्वादित्यर्थः । अत्र हरौ भगवति चक्रधारणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ २६॥

 जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः।
 ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः २७

 जगतीति ॥ श्रिया राजलक्ष्म्या विरहितोऽपि । यदूनां ययातिशापाद्राज्यानधिकारित्वादिति भावः । ज्ञातिजनेन बन्धुजनेन जनितं प्रवर्तितं नामपदं श्रीरिति पारिभाषिकसंज्ञाशब्दो यस्यास्तामुदधिसुतामब्धिकन्यां यद्यस्मादुपायथाः । उदूढवानित्यर्थः । 'विवाहोपयमौ समौ' इत्यमरः । 'उपाद्यमः स्वकरणे' (१।३।५६) इत्यात्मनेपदम् । 'तनादिभ्यस्तथासोः' (२।४।७९) इति सिचो लुक् 'अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः । अतो जगति श्रियः पतिरिति प्रथां ख्यातिमगाः प्राप्तवानसि । 'इणो गा लुङि' (२।४।४५) इति गादेशः । न राजान्तरवद्राज्यलक्ष्मीयोगात्तव श्रीपतित्वम् , किंतु श्रीसंज्ञिकायाः कस्याश्चिद्वराक्याः परिग्रहादिति भावः । अत्रोग्रसेनस्याभिषेकसंस्कारेऽपि त्रैलोक्यप्रतिष्ठापकस्य हरेरेव सकलराज्यश्रीधुरंधरत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ २७ ॥