अभिशत्रु संयति कदाचिदविहितपराक्रमोऽपि यत् ।
व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यसे जगति विक्रमीत्यतः २८
अभीति ॥ संयति युद्धे कदाचित् कदापि अभिशत्रु शत्रुमभिव्याप्य । आभिमुख्येऽव्ययीभावः । अविहितपराक्रमोऽप्यकृतपौरुषोऽपि यद्यस्मात्कथमपि महता प्रयत्नेन व्योन्नि पदं पादक्षेपं चकर्थ कृतवानसि । 'ऋतो भारद्वाजस्य' (७२।६३) इति इट्प्रतिषेधः पित्त्वेनाकित्त्वाद्गुणः । अतो जगति विक्रमी विक्रमवानिति व्यपदिश्यसे व्यवह्वियसे, न तु पराक्रमयोगादित्यर्थः । अत्रापि पराक्रमसंबन्धोक्तरतिशयोक्तिः ॥ २८॥
पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।
भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः २९
पृथिवीमिति ॥ पूर्व प्रागपि । संपत्संभवेऽपीति भावः । पृथिवीं बिभर्थ यदि भृतवांश्चेत् । भृजो लिटि भारद्वाजीयेट्प्रतिषेधः । पित्त्वेनाकित्त्वाद्गुणः । इदं भूधारणमपि गुणायोत्कर्षाय वर्तते । भूतपूर्वगत्यापि व्यपदेशत्वात्तदपि नास्तीति भावः । प्रत्युत परैः शत्रुभिः हारितभूः परिहारितभूमिक: जरासंधेन मथुरानगरान्निष्कासितत्वादिति भावः । अत्र हर्तुरवहरणक्षमत्वमेव हारयितृत्वमिति णिजर्थोपपत्तिः । जनैः कथमन्यथा अर्थवैपरीत्येन भूमिभृदित्युदाहियस्व उदाह्रितयेथाः । संभावनायां लोट् । असंभावितमेवेत्यर्थः । अत्रापि भूधरणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ २९ ॥
तव धन्यतेयमपि सर्वनृपतितुलितोऽपि यत्क्षणम् ।
क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥३०॥
तवेति ॥ तवेयं धन्यता पुण्यवत्ता कथं सर्वैर्नृपतिभिस्तुलितोऽवधूतोऽपि । तिरस्कृतोऽपीत्यर्थः । क्षणं क्लान्ते भारवत्तयैव श्रान्ते करतले धृतः अचलकोऽल्पाचलो येन स सन् पृथिवीतले तुलितभूभृदुद्धृतराजकश्चोच्यस इति यत् इयमप्यपरा ते धन्यतेत्यर्थः । गोवर्धनाख्यक्षुद्रभूधरतोलनात्तुलितभूभृत्त्वं भवति न मादृशामिव महावीरातितुलनादिति भावः । अत्र सर्वनृपतितुलितोऽपि तत्तोलक इति विरोधो भूभृदिति श्लेषमूलाभेदाध्यवसायोत्थापित इति विरोधातिशयोक्त्योः संकरः । तेन गोवर्धनोद्धरणमपि नातीवाद्भुतं बाहुबलशालिनामिति वस्तु व्यज्यते ॥३०॥
त्वमशक्नुवन्नशुभकर्मनिरत परिपाकदारुणम् ।
जेतुमकुशलमतिर्नरकं यशसेऽधिलोकमजयः सुतं भुवः॥३१॥
त्वमिति ॥ हे अशुभकर्मनिरत पापाचारपर, अत एवाकुशलमतिर्दुर्बुद्धिस्त्वं परिपाके फलकाले दारुणम् । विचित्रपापयातनामयत्वाद्भयंकरमित्यर्थः । नरकं निरयम् । 'स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्' इत्यमरः । जेतुमशक्नु