पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
शिशुपालवधे

न्नतमुन्नतमवनीभृतां राज्ञां, भूधराणां च गणमपहाय । न्यञ्चतीति न्यङ् तस्मिन्नीचि नीचवृत्ते, निम्ने च । 'अचः' (६४।१३८) इत्यकारलोपे 'चौ' (६॥३॥१३८) इति दीर्घः । इहास्सिन्कृष्णे यद्यस्मान्नियतं नित्यं निरतोऽनुरक्तः प्रवणश्च स इति शेषः । निम्नं नीचं गच्छतीति निम्नगा नदी । डो 'अन्यत्रापि दृश्यते' (वा०) इति डप्रत्ययः । तस्याः सुतो भवसि स्फुटं व्यक्तम् । नीचनिरतत्वादिधर्मसंक्रमादिति भावः । उक्तं च-'न पित्र्यमनुवर्तन्ते मातृकं द्विपदाः' इति । अत्र चतुर्थपादार्थस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ २१ ॥

 अथ सप्तदशभिः कृष्णोपालम्भं करोति-

 प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।
 कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता २२

 प्रतिपत्तुमिति ॥ हे अङ्ग, तव नृपयोग्यं राजार्हमर्हणं पूजनं प्रतिपत्तुं स्वीकर्तुं न च घटते न युज्यते । नन्वहमपि राजैव कथमर्हणं मे न युक्तं तत्राह- कृष्णेति । हे कृष्ण, अहं क इति कलय । अहं राजा न वेति निजस्वरूपमालोचयेत्यर्थः| अनालोचनेऽनर्थमाह-अनात्मवेदिता अनात्मज्ञत्वं आपदां पदं स्थानं स्फुटं खलु । सत्यमित्यर्थः । आत्मा च कंसकिङ्करस्तस्य पशुपालकत्वादिति भावः । अतो निजस्वरूपं चिन्त्यमिति हेतुमद्भावात्काव्यलिङ्गम् ॥ २२ ॥

 असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते ।
 दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥२३॥

 असुर इति ॥ मधुरिति कोऽप्यसुरस्त्वया न्यवधि हतः । 'आत्मनेपदेष्वन्यतरस्याम्' (२।४।४४) इति हन्तेर्लुङि विकल्पाद्वधादेशः । इति कथं प्रतीयते विश्वस्यते । न कथंचिदित्यर्थः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । किंतु दण्डेन दलिता ध्वस्ता सरघा मधुमक्षिका येनेदृशस्त्वम् । 'सरघा मधुमक्षिका' इत्यमरः । अत एव मधु क्षौद्रं सूदयन्पीडयन् मधुसूदन इति प्रथसे प्रथितोऽसि | मक्षिकासूदनमेव मधुसूदनसंज्ञाप्रवृत्तिनिमित्तं, न तु मधुनानो दैत्यस्य सूदनमित्यर्थः । अत्र मधुसूदनसंज्ञायां प्रसिद्धार्थनिषेधस्योत्तरवाक्यस्यान्यथा व्युत्पादनहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ २३ ॥

 मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।
 सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः ॥२४॥

 मुचुकुन्देति ॥ हे अबल बलहीन, कुतः मुचुकुन्दो नाम कश्चिद्राजा । यस्यासुरविजयश्रान्त्या निद्रायमाणस्य देवतावरप्रसादान्निद्राविघातकारी दृष्टिपाताद्भस्मीभवतीति तस्य तल्पं शय्या तदेव शरणं रक्षकं यस्य तस्य । कालयवनविद्रावितस्येति भावः । तथा मगधपतिना जरासंधेन शातितौजसः अष्टादशकृत्वो

पाठा०-१ 'यवनपति".