पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६४
शिशुपालवधे

इति वसादेशः स्यात् । क्रोधान्धाः किमु न कुर्वन्तीति भावः । अत्रांसकाठिन्यस्य विशेषणगत्या स्तम्भाश्लेषहेतुत्वात्काव्यलिङ्गं शैलशिखरोपमया संकीर्यते ॥ ६॥

 कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् ।
 क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ७

 कनकेति ॥ कनकस्याङ्गदयोः केयूरयोः द्युतिभिः पिशङ्गतां पिङ्गलवर्णतां गमितं प्रापितमिति तद्गुणालंकारः । अथास्य चैद्यस्य बाहुमण्डलं क्रोधमयशिखिशिखापटलैः क्रोधाग्निज्वालाजालैः परितः परीतं परिवृतमिवारुचदित्युत्प्रेक्षा । 'द्युद्भ्यो लुङि' (१॥३।९१) इति परस्मैपदम् ॥ ७ ॥

 कृतसंनिधानमिव तस्य पुनरपि तृतीयचक्षुषा ।
 क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥८॥

 कृतेति ॥ कुटिले ध्रुवौ यस्य तत्कुटिलभ्रु । उपसर्जनस्य हस्वः । गुर्व्या भृकुट्या भ्रूभङ्गेन कठोरितं भीषणीकृतं ललाटं यस्य तत् । तस्य चैद्यस्याननं पुनरपि तृतीयचक्षुषा कृतसंनिधानं कृतसंसर्गमिवेत्युत्प्रेक्षा । क्रूरमजनि भयंकरमभूत्| जनेः कर्तरि लुङ् 'दीपजन-' (३।१॥६१) इत्यादिना विकल्पाच्चिण्- प्रत्ययः॥८॥

 अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।
 दृष्टिरगणितभयासिलतामवलम्बते स्म समया सखीमिव ॥९॥

 अतिरक्तेति ॥ अमुष्य चैद्यस्य दृष्टिः । अतिरक्तस्य भावो धर्मस्तमतिरक्तभावं रोषातिरेकादत्यरुणतामन्यत्र कर्मातिरेकादत्यनुरागितामुपगम्य प्राप्य । साहसे कृष्णादिवधरूपे, अन्यत्र युद्धे कृतमतिः । सर्वथा गमिष्यामि हनिष्यामि इति च कृतनिश्चयोऽर्थनिर्धारणं मतिरिति । अगणितमविचारितं भयं शत्रोर्गुरुजनाच्च यया सा सती समया समीपे असिलतां सखीमिवावलम्बते स्म साधनत्वेन च स्वीचकार । क्रोधाज्जिघांसया खड्गमद्राक्षीदित्यर्थः । अत्र प्रस्तुतदृष्टिविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्तिरुपमासंकीर्णा ॥ ९॥

 करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।
 त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥१०॥

 करेति ॥ अयं चैद्यः उरुतरो महत्तरो नगाश्मवत् शैलशिलेव कर्कश इत्युपमा । तं निजमात्मीयमूरुं सक्थि । 'सक्थि क्लीबे पुमानूरुः' इत्यमरः । करः कुड्मल

इवेत्युपमितसमासः । तेन संहतप्रसारिताङ्गुलिना पाणितलेनेत्यर्थः । त्रस्तो भीतः अत एव चपलं चञ्चलं चलमानेन जनेन श्रुतो भीमनादो भयंकरध्वनिर्यस्मिन्कर्मणि तद्यथा तथा उच्चकैस्तारं आहत आहतवान् । अलब्धलक्ष्याः क्रोधान्धाः स्वात्मानमेव घ्नन्तीति भावः । आङ्पूर्वाद्धन्तेर्लङ् 'आङो यमहनः' (१।३।२८)