पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६५
पञ्चदशः सर्गः ।

इत्यकर्मकाधिकारेऽपि 'खाङ्गकर्मकाञ्चेति वक्तव्यम्' (वा०) इत्यात्मनेपदे 'अनुदात्तोपदेश-' (६।४।३७) इत्यादिनानुनासिकलोपः ॥ १० ॥

 इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।
 याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः॥११॥

 इतीति ॥ इतीत्थमनेन प्रकारेण अनेन चैद्येन भृशं चुक्रुधे क्रुद्धम् । भावे लिट् । संवृतिमदपि संवृतिर्विकारगुप्तिः तद्वदपि । धीरमपीत्यर्थः । मनो महद्विप्रियमप्रियमवाप्य विकृतिं विकारं याति ननु प्राप्नोति खलु । यन्मनो निसर्गात्स्वभावान्निरवग्रहम्| चपलमित्यर्थः । ग्रहेः खल्प्रत्ययः । तदिति शेषः । किमु । विकृतिं यातीति किमु वक्तव्यमित्यर्थः । चपलचित्तश्चायं चैद्य इति भावः । अत्र चैद्यक्रोधस्य नन्वित्यादिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ ११ ॥

 एवं गात्रारब्धविकारानुक्त्वा वागारब्धान्वक्तुमुपोद्धातयति-

 प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी।
 भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत्॥१२।।

 प्रथममिति ॥ न व्यथते बिभेतीत्यव्यथी निर्भीकः । 'जिदृक्षि-' (३।२।१५७) इत्यादिना नञ्पूर्वाव्द्यथतेरिनिः । असौ चैद्यः प्रथमं शरीरजैर्विकारैः पूर्वोक्तैः शिरःकम्पनादिभिः कृतो मुकुलबन्धो मुकुलप्रादुर्भावो यस्य तत् । भाविकलहस्य रणस्यैव फलयोगो यस्य तत् । 'अस्त्रियां समरानीकरणाः कलहविग्रहो' इत्यमरः । कोप एव कुसुमं तत् वचनेन 'यदपूपुज' (१५/१४) इत्यादि वक्ष्यमाणवाक्येन व्यचीकसद्विकासयति स्म । कसेः 'णौ चङ्युपधाया ह्रस्वः' (७।४।१) 'दीर्घो लघोः' (७।४।९४) इत्यभ्यासदीर्घः । अत्र विकारकलहवचनकोपेषु मुकुलफलविकासकुसुमत्वरूपणात्समस्तवस्तुवर्तिसावयवरूपकम् ॥ १२ ॥

 ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः।
 वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरामसौ ॥१३॥

 ध्वनयन्निति ॥ अथ सनीरघनरवगभीरवाक् । सजलमेघगर्जितगभीरस्वर इत्यर्थः । अभीः निर्भीकः असौ चैद्यः सभामास्थानं ध्वनयन्नतिरोषवशादतिनिष्ठुराण्यतिपरुषाणि स्फुटतराणि चाक्षराणि यस्यास्तां वाचमवदत् । घनरवगभीरेत्युपमालंकारः॥ १३॥

 'वाचमवदत्' (१५/१३) इत्युक्तम् , अथ तामेव प्रपञ्चयन्पञ्चभिः पाण्डवोपालम्भमाह-

 यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम्
 प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते॥१४॥

[ * वल्लभेन त्वितः प्रभृति अष्टत्रिंशत्संख्याक( अयमुग्रसेन )श्लोकपर्यन्तं व्याख्यानं

न कृतम् । किंतु अग्रे मल्लिनाथेन प्रक्षिप्तत्वेन निर्दिष्टा एव व्याख्याताः । १२९९ शकलिखितपुस्तके त्वेतेऽपि श्लोका उपलभ्यन्ते तेऽपि च ।]