पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६३
चतुर्दशः सर्गः ।

भर्त्सने' चौरादिकस्यानुदात्तत्वेन प्राप्तस्य आत्मनेपदस्य चक्षिङादेशस्य ख्याञ: स्थानिवद्भावानादरेण पुनर्ञित्करणसामर्थ्यादनित्यत्वज्ञापनात्परस्मैपदम् । अत एव तर्जयतीत्यपि दृश्यते कविष्विति भट्टमल्लः । अशनैरतिमात्रं प्रकम्पितं जगत्रयं येन तत् त्रैलोक्यभीषणं शिरः शनैर्लोलाश्चपला मुकुटमणिरश्मयो यस्मिन्कर्मणि तद्यथा तथा अकम्पयत् । क्रोधातिरेकादिति भावः ॥ ३ ॥

 स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।
 स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥४॥

 स इति ॥ रुषा रोषेणाश्रु वमन्मुञ्चन् । घनेन सान्द्रेण घर्मेण क्रोधोष्मणा विगलत्स्रवदुरु महत् गण्डमण्डलं यस्य सः । स्विद्यत्कपोल इत्यर्थः । स्वेदजलकणैः स्वेदबिन्दुभिः करालकरो दन्तुरहस्तः स चैद्यः त्रिधा नेत्रकपोलहस्तदेशैः प्रभिन्नो मदस्रावी मत्तः । 'प्रभिन्नो मत्तः स्यात्' इति वैजयन्ती । कुञ्जर इव व्यरुचत् । रुचेः 'दयुद्भ्यो लुङि' (१|३।९१) इति विकल्पात्परस्मैपदम् । एतेन स्वेदाख्यः सात्विकभाव उक्तः । उपमालङ्कारः ॥ ४ ॥

 स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।
 क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥५॥

 स इति ॥ राज्ञां समूहो राजकम् । 'गोत्रोक्ष-' (४।२।३९) इत्यादिना वुञ्प्रत्ययः । तदवधूतमभिभूतं येन स तथोक्तः स चैद्यो निकामं घर्मितं संजातधर्मम्| उद्भवत्स्वेदमित्यर्थः । 'धर्मः स्यादातपे ग्रीष्म उष्णस्वेदाम्भसोरपि' इति विश्वः । तारकादित्वादितच्प्रत्ययः । वपुः प्रलये अर्णवस्तस्मादुत्थितः । आदिशूकर इव क्षिप्ताः प्रेरिता बहुलाः सान्द्रा जलबिन्दवो यस्मिन्कर्मणि तद्यथा तथा अभीक्ष्णमधुवत्क्रोधाद्धुवति स्म । 'धूञ् विधूनने' इति धातोस्तौदादिकाल्लङ् । अत्रापि स्वेदः सात्विक एवोक्तः । उपमालङ्कारः ॥ ५॥

 क्षणमाश्लिषद्धटितशैलशिखरकठिनांसमण्डलः ।
 स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥६॥

 क्षणमिति ॥ घटितं सुसंहितं यच्छैलशिखरं तद्वत्कठिनमंसमण्डलं यस्य सः असौ चैद्यः उपहितावगाहिता । आरोपितेत्यर्थः । विधूतिः कम्पो यस्मिंस्तम् । अधिकमत्यन्तमवधूनिता कम्पिता समस्ता सकला संसत् सभा येन तं स्तम्भं क्षणं आश्लिषत् श्लिष्टवान् । तेनांसमण्डलेनाहतवानित्यर्थः । अत एव कठिनांसमण्डल इति विशेषणं च । पुषादित्वाच्च्लेरङादेशः । आलिङ्गनार्थत्वे तु 'श्लिष आलिङ्गने'

[ ञित्त्वस्य पदद्वयार्थ कृतत्वेनाज्ञापकत्वादिदमसंगतम् । तस्मात् विचक्षण इत्यत्र युजर्थमावश्यकेनानुदात्तेत्वेनात्मनेपदे सिद्धे ङित्करणसामर्थ्यात् 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्'

इत्यस्य सिद्धिर्वक्तव्या'.]