पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
शिशुपालवधे

भजता नृपेण युधिष्ठिरेण इतीत्थं भीष्मोक्तं तद्वचः सम्यङ्गिशम्य श्रुत्वा । महीभृतां राज्ञां पुरोऽग्रे महति अर्घे पूजायां दत्तेऽपि मधुभिद्धरिः त्रयो लोकास्त्रैलोक्यम्| चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । तत्र त्रैलोक्ये कृष्णोऽन[१]र्घः पूजारहित एवाभूदिति विरोधः । अमूल्य एवाभूदित्यविरोधः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । अत्रार्घयोरभेदाध्यवसायाद्विरोधः, तदनध्यवसायादविरोध इति विरोधाभासोऽलंकारः । प्रहर्षिणी वृत्तम् ॥ ८८॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध-
काव्यव्याख्यायां सर्वकषाख्यायां चतुर्दशः सर्गः ॥ १४ ॥



पञ्चदशः सर्गः।

 अथ तत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।
 मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्॥१॥

 अथेति ॥ अथ हरिपूजानन्तरं चेदिपतिः शिशुपालः तत्र सदसि सभायां पाण्डुसुतेन युधिष्ठिरेण विहितं मुरद्विषो हरेर्मानं पूजां नासहत । ईर्ष्यां चकारेत्यर्थः । 'परोत्कर्षाक्षमेर्ष्या स्याद्दौर्जन्यान्मन्युतोऽपि च' इति लक्षणात् । तथा हि-मानिनामहंकारिणां मनः परवृद्धौ मत्सरि मत्सरवत् । परशुभद्वेषि खल्वित्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । अस्मिन्सर्गे उद्गता वृत्तम् । 'सँजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता । त्र्यङ्घ्रिगतभनजला गयुताः सजसा जगौ चरममेकतः पठेत् ॥' इति लक्षणात् ॥ १ ॥

 पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।
 मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥२॥

 पुर इति ॥ पुरः पूर्वमेव शार्ङ्गिणि सवैरं सक्रोधममुं चैद्यं अथ पुनः अतः परं तदर्चया हरिपूजया अवगाढतरो निबिडतरो मन्युः क्रोधः । रौद्ररसस्य स्थायीभाव इति भावः । देहिनं शरीरिणं समौ मिलितौ दोषो अपथ्यसेवा काल: कर्मविपाकश्च यस्य स ज्वर इवाभजत् । उपमालंकारः ॥ २॥

 अथाष्टभिरस्य गात्रारब्धक्रोधचेष्टां प्रपञ्चयति-

 अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् ।
 लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्रयं शिरः॥३॥

 अभीत्यादि ॥ असौ चैद्यः । समस्तनृपगणमभितर्जयन्निवेत्युत्प्रेक्षा । 'तर्ज-


  1. नर्घ्यः[* 'अत्र सजसादिमे...चरणमेकतः पठेत्' इत्यपि पाठो नारायणभट्टीवृत्तौ ।