च यथासंख्यमिति भावः । उदस्योद्यम्य दुस्तरायां तोयापदि जलसंकटे एकत्र समुद्रकृतायां, अन्यत्र वर्षकृतायामिति विवेकः । मग्नस्य गोमण्डलस्य भूगोलस्य, धेनुवृन्दस्य चोद्धरणं चकार । अत्र कोलत्वबल्लवत्वयोः प्रकृतयोरेव श्लेषमूलाभेदाध्यवसायेन गोमण्डलोद्धरणस्य बिम्बप्रतिबिम्बभावेन दंष्ट्राभुजोधमनस्य च साम्यादौपम्यगम्यतायां तुल्ययोगिता सती यथासंख्येन संकीर्यते । इन्द्रवज्रा वृत्तम् । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति लक्षणात् ॥ ८६ ॥
एवं देवं स्तुत्वानन्तरं कर्तव्यमुपदिशति-
धन्योऽसि यस्य हरिरेष समक्ष एव
दूरादपि ऋतुषु यज्वभिरिज्यते यः ।
दत्त्वार्घमत्रभवते भुवनेषु याव-
संसारमण्डलमवामुहि साधुवादम् ॥ ८७ ॥
धन्योऽसीति ॥ धनं लब्धो धन्यः पुण्यवानसि । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । 'धनगणं लब्धा' (४४८४) इति यत्प्रत्ययः । यस्य ते एष हरिः समक्ष एव अक्ष्णोः समीप एव । पुरत एवेत्यर्थः । स्थित इति शेषः । सामीप्येsव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' (५।४।१०७) इति समासान्तः । अत एव 'तृतीयासप्तम्योर्बहुलम्' (२।४।८४) इति सप्तम्या अमभावः । अन्यत्र को विशेषस्तत्राह-यो हरिः दूरादपि परोक्षेऽपि ऋतुषु यागेषु यज्वभिर्विधिवदिष्टवद्भिः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप्' (३।२।१०३) इति ङ्वनिप्प्रत्ययः । इज्यते पूज्यते स ते प्रत्यक्ष इति धन्यस्त्वमित्यर्थः । फलितमा–अत्रभवते । पूज्यायेत्यर्थः । 'पूज्यस्तत्रभवान्' इति सज्जनः । 'इतरेभ्योऽपि दृश्यते' (५।३।१४) इति सार्वविभक्तिके त्रल्प्रत्यये सुप्सुपेति समासः । अर्धं पूजां दत्त्वा यावत्संसारमण्डलं वर्तते तावदिति शेषः । भुवनेषु साध्विति वादः शब्दस्तं साधुवादं साधुसमाख्यामवाप्नुहि । लभस्वेत्यर्थः । अत्र राज्ञो धन्योऽसीति विशेषणगत्या यस्येत्यादिवाक्यार्थहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः। वसन्ततिलका वृत्तम् ॥ ८७ ॥
भीष्मोक्तं तदिति वचो निशम्य सम्य-
क्साम्राज्यश्रियमधिगच्छता नृपेण ।
दर्तेऽर्घे महति महीभृतां पुरोऽपि
त्रैलोक्ये मधुभिदभूद[१]नर्घ एव ॥ ८८ ॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के श्रीकृष्णार्घ-
दानो नाम चतुर्दशः सर्गः ॥ १४ ॥
भीष्मेति ॥ 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्' इत्यमरः । सम्राजो भावः साम्राज्यं तदेव श्रीस्तां श्रियमधिगच्छता
- ↑ °दनर्घ्य