पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
शिशुपालवधे

भावः । अत्र स्वयंभूप्रार्थनाया विशेषणगत्या वसुदेवपुत्रताप्राप्तिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ ८२॥

 तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।
 यः सुरैरिति सुरौघवल्लभो बल्लवैश्व जगदे जगत्पतिः ॥८३॥

 तातेति ॥ सुरौघवल्लभः सुरगणप्रियः । जगत्पतिर्यो हरिः सुरैर्देवैः बल्लवैर्गोपालैश्च हे तात जनक, नेति छेदे, उदधिविलोडनं समुद्रमथनं प्रति, नो इति छेदे, दधिविलोडनं दधिमन्थनं च प्रति त्वद्विना । त्वां विहायेत्यर्थः । 'पृथग्विना-' (२।३।३२) इत्यादिना विकल्पात्पञ्चमी । अथ वयं न नो वोत्सहामहे न क्षमामहे इति जगदे गदितम् । अत्र हरिवर्णनाङ्गत्वेन सुराणां बल्लवानां च प्रकृतानामेव नोदधिशब्दमूलाभेदाध्यवसायलब्धदध्युदधिविलोडनक्षमत्वकर्मसाम्यागम्यौपम्यत्वात्तुल्ययोगिताभेदः । तेन च हरेर्दधिमन्थनकलावदुदधिमन्थनमपीति वस्तु व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ८३ ॥

 नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।
 योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः॥८४ ॥

 नात्तगन्धमिति ॥ किंचेति चार्थः । यो हरिः शत्रुभिरवधूयाभिभूय नात्तगन्धमनाघ्रातसौरभमनभिभूतं च । 'आत्तगन्धोऽभिभूतः स्यात्' इत्यमरः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। छाययानातपेन, पालनेन च 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कर्षयोः कान्तिसच्छोभापतिषु स्त्रियाम्' इति विश्वः । शमितामरश्रमं निवारितसुरखेदं पारिजातं वृत्रविद्विषः शक्रस्याभिमानमहंकारमिव दिवः स्वर्गादुदमूलयदुन्मूलितवानिति पारिजातहरणोक्तिः । श्लेषसविशेषणेयमुपमेति केचित् । श्लेषवच्चान्ये ॥ ८४ ॥

 यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् ।
 चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ।। ८५ ॥

 यमिति ॥ किंचेति चार्थः । ललाटमेव लेखा तया ललाटलेखया ललाटदेशेन शंभोर्विभ्रमं सौन्दर्यं बिभ्रतः । ललाटलोचनमित्यर्थः । चेदिपस्य शिशुपालस्य लोचनं तृतीयनेत्रं कर्तृ यं हरिमेव चण्डमारुतं चण्डमारुतमिव समेत्य प्रदीपवत्प्रदीपेन तुल्यम् । 'तेन तुल्यम्'-(५।१।११५) इति वतिप्रत्ययः । निरवान्निर्वाति स्म । नष्टमित्यर्थः । निपूर्वाद्वाधातोर्लङ् । “निरवाप' इति क्वचित्कः पाठः स न सम्यक् । वातेः प्रक्रियाविरोधादाप्नोतेरसंगतार्थत्वादिति अनेकार्थेयमुपमा ॥ ८५ ॥

 यः कोलतां बल्लबतां च विभ्रदंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।
 मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ।। ८६॥

 य इति ॥ यो हरिः कोलतां वराहत्वम् । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । बल्लवतां गोपालत्वं च बिभ्रत् । आशु गुर्वी दंष्ट्रां भुजां