लब्धशममप्राप्तशान्ति । दुर्निवारा दुर्जया रणकण्डूर्यस्य तत् । रणव्यसनीत्यर्थः । 'गोस्त्रियोरुपसर्जनस्य' (१।२।४८) इति ह्रस्वः । सुरद्विषो हिरण्यकशिपोर्वक्षः कोमलैर्नखैः निरदारयदभिनत् । वज्राद्यभेद्यस्य कोमलनखविदार्यत्वं भगवत्प्रभा- वादिति विरोधाभासोऽलंकारः ॥ ७२ ॥
वारिधेरिव कराग्रवीचिभिर्दिमतङ्गजमुखान्यभिघ्नतः ।
यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥७३॥
(युग्मकम् ।)
वारिधेरिति ॥ कराग्राणि वीचय इवेत्युपमितसमासः । वारिधेरिवेति लिङ्गात् । ताभिः कराग्रवीचिभिः । दिगन्तवितताभिरिति भावः । अत एव दिङ्मतङ्गजानां मुखान्यभिनतो रोषातिरेकात्प्रहरतो यस्य सिंहमूर्तेर्हरेर्वारिधेरिव चारुनखाः शुक्तय इव । पूर्ववदुपमितसमासः । स्फुरन्मौक्तिकप्रकरो दिग्गजकु- म्भसंभूतमुक्तावातो गर्भेऽन्तर्गतो यासां तासां भावस्तत्ता तां दधुः । एष निर- दारयदिति पूर्वेणान्वयः । एतेन नरहरिक्रोधस्य सामर्थ्यं महासुरेऽपि न पर्याप्त- मिति व्यज्यत इति वस्तुना वस्तुध्वनिः । उपमालंकारः ॥ ७३ ॥ अथ चतुर्भिर्वामनावतारमाह-
दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।
आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ।। ७४ ॥
दीप्तीत्यादि ॥ आत्मनो भवतीति आत्मभूः स्वयंभूरपि । अवरजाश्चरमजा अखिलाः प्रजा जना यस्य सोऽपि । सर्वज्येष्ठोऽपीत्यर्थः । अयं हरिः दीप्तिनिर्जितविरोचनात् ज्योतिर्विजितमार्तण्डात् । विरोचनः प्रह्लादपुत्रः । 'विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने' इत्युभयत्रापि विश्वः । तस्य सुताद्बलेर्गां भुवमभीप्सतः प्राप्तुमिच्छतोऽभ्याहर्तुमिच्छतः । सन्नन्तादाप्नोतेर्लटः शत्रादेशः । स्वर्पतेरवरजत्वमिन्द्रानुजत्वं ययौ । बलिध्वंसनार्थमिति शेषः । लोकानुग्रहार्थिनः किं न कुर्वन्तीति भावः । अत्राजत्वावरजत्वसामानाधिकरण्यविरोधो भगवत्प्रभावादाभासीकृत इति विरोधाभासोऽलंकारः ॥ ७४ ॥
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।
तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः॥७५॥
किमिति ॥ एष वामनः खर्वः । 'खर्वो हस्त्रश्च वामनः' इत्यमरः । किं क्रमिष्यति इत्थमनेन प्रकारेण दानवा यावन्नाहसन् तावत्ततः प्रागेव लवितेऽतिक्रान्ते अर्कशशिमण्डले येन सोऽस्य हरेः क्रमः पादविक्षेपो नभस्तले न ममौ न परिमाणं गतवान् । यथा न माति तथा ववृधे इत्यर्थः । अत्राधारान्नभस्तलादाधेयस्य क्रमस्याधिक्यकथनादधिकालंकारभेदः । आश्रयाश्रयिणोराधिक्यमधिकमिति लक्षणात् ॥ ७५॥