गच्छतापि गगनाप्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।
क्रान्तकंधर इवाबलो बलि: स्वर्गभर्तुरगमत्सुबन्धताम् ॥७६॥
गच्छतेति ॥ गगनाग्रं गगनोपरिभागं गच्छतापीति विरोधः । भूधरगरीयसेत्युपमा । यस्य वामनस्योच्चकैरुन्नतेनाङ्घ्रिणा क्रान्तकंधरोऽवष्टब्धकण्ठ इवाबलो दुर्बलो बलिर्वैरोचनिः स्वर्गभर्तुरिन्द्रस्य सुखेन बध्यत इति सुबन्धः । 'ईषदुःसुषु-' (३।३।१२६) इत्यादिना खल्प्रत्ययः । तत्तामगमत् । गुरुद्रव्यावष्टब्धकण्ठो हि सुखेन बध्यत इति भावः । 'न लोका-' (२।३।६९) इत्यादिना कृद्योगलक्षणाया एव षष्ट्या निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी । अत्र क्रान्तकंधर इवेत्युत्प्रेक्षाया भूधरगरीयसेत्युपमासापेक्षत्वात्संकरः । विरोधेन त्वनपेक्षिता संसृष्टिः॥ ७६॥
क्रामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।
व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥७७॥
क्रामत इति ॥ क्रामतः पादं विक्षिपतोऽस्य संबन्धिनं दूरमायतमलिनीलं भृङ्गश्याममूरुं सक्थि दिवौकसो देवा व्योम्नि दिव्यसरितो मन्दाकिन्या अम्बुपद्धत्या जलप्रवाहेण स्पर्धया उत्थितमूर्ध्वतः प्रवृत्तं यमुनौघं यमुनाप्रवाहमिव ददृशुरित्युत्प्रेक्षेयमुपमासंकीर्णा ॥ ७७ ॥
अवतारान्तरमाह-
यस्य किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।
कान्तवक्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥७८॥
यस्येति ॥ कायनिग्रहेणामृतविभागकाले देहच्छेदेन गृहीतविग्रहो बद्धवैरः कृती कुशलो राहुर्यस्य हरेः किंचिदपदकर्तुमक्षमः सन् कान्तं रम्यं यद्वक्त्रं हरि मुखं तेन सदृशी आकृतिर्यस्य तम् । तत्सुहृदमित्यर्थः । इन्दुमधुनापि बाधते पीडयति । उपरागमिषेणेति भावः । अत्र साक्षात्प्रतिपक्षहरिनिग्रहाशक्त्या राहोस्तदीयेन्दुनिग्रहोक्त्या प्रत्यनीकालंकारः । तथा च सूत्रम्-'प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम्' इति ॥ ७० ॥
दत्तात्रेयावतारमाह-
संप्रदायविगमादुपेयुषीरेष नाशमविनाशिविग्रहः ।
सर्तमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ ७९ ॥
संप्रदायेति ॥ अविनाशिविग्रहोऽनपायस्वरूपः अत एव अप्रतिहता स्मृतिः स्मरणशक्तिर्यस्य स एष हरिः संप्रदाय उपदेशपरम्परा तस्य विगमादपायान्नाश कालदोषाध्ययनविच्छेदमुपेयुषीः प्राप्ताः । 'उगितश्च' (४।१।६) इति ङीप् । श्रुतीर्वेदान् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । स्मर्तुम् । श्रुतिसंप्रदायं प्रवर्तयितुमित्यर्थः । दत्त इति विख्यात इति शेषः । अत्रिगोत्रे जातोऽत्रिगोत्रजोऽभवत् ।