पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
शिशुपालवधे

 श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्वलम् ।
 श्रीमुखेन्दुसविधेऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥६९।।

 १श्रौतेति ॥ श्रौतमार्गस्य सुखं सुखकरं यद्गानं तस्य कोविदोऽभिज्ञः । कोविदो व्याख्यातः । स चासौ ब्रह्मा च स एव षट्चरणः भृङ्गः स गर्भे यस्य तत् उज्ज्वलं निर्मलं यस्य हरेर्नाभिरेव सरसी । सरः कासारः। 'कासारः सरसी सरः' इत्यमरः । तस्यां रोहतीति सरोरुहं पद्मं श्रियो मुखमेवेन्दुस्तस्य सविधे समीपेऽपि शोभत इति विरोधः । स च मुखस्येन्दुत्वरूपणायत्त इत्यनयोरङ्गाङ्गिभावेन संकरः ॥६९॥

 सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।
 जन्म विभ्रतमजं नवं२ बुधा यं पुराणपुरुषं प्रचक्षते ॥ ७० ॥

 सत्येति ॥ यं हरि सत्यवृत्तमकपटचरितमपि । मायिनं मायाविनं कपटवृत्त- मिति विरोधः । माया नाम शक्तिः तद्वन्तमित्यविरोधः । व्रीह्यादित्वादिनिप्र- त्ययः । जगद्वृद्धं सर्वलोकपितामहत्वात्स्थविरमपि । 'प्रवयाः स्थविरो वृद्धः' इत्य- मरः । उचितनिद्रं परिचितयोगनिद्रमर्भकं डिम्भम् । 'वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि' इत्यागमवचनादिति भावः । 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । न जायत इत्यजो जन्मरहितः । 'अन्येष्वपि दृश्यते' (३।२। १०१) इति जनेर्डप्रत्ययः । तमपि जन्म बिभ्रतम् । कामवशात्कृष्णादिजन्मभाज- मित्यर्थः । नवं रमणीयत्वादभिनवं तथापि पुराणं प्राचीनमनादिं च पुरुषं प्रचक्षते । बुधा इति वाक्यं सर्वत्र संबध्यते । सर्वेऽपि विरोधा हरेरचिन्त्यमहिमत्वेनाभास्या इति विरोधाभासचतुष्टयसंसृष्टिः ॥ ७० ॥

 अथ षोडशभिरवतारान्वर्णयिष्यन्वराहावतारं तावदेकेनाह-

 स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।
 उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुंधराम् ॥ ७१ ॥

 स्कन्धेति ॥ स्थूलनासिकवपुर्वराहमूर्तिरयं हरिः स्कन्धस्य कंधरायाः धून- नेन कम्पनेन विसारिभिरुत्सर्पिभिः केसरैः सटाभिः क्षितोऽवकीर्णः सागरस्य महाप्लवो महापूरः यस्यास्ताम् । जलापसारेण प्रकाशितामित्यर्थः । वसुंधरां भुवं मुहूर्तं क्षणमात्रम् । 'मुहूर्तमल्पकालेऽपि' इति शब्दार्णवे । उद्धृतामनावृतत्वा- त्सागरादुत्क्षिप्तामिव ऐक्षत प्रेक्षितवानित्युत्प्रेक्षा । ईक्षतेर्लङि 'आडजादीनाम्' (६।४।७२) 'आटश्च' (६।१।९०) इति वृद्धिः ॥ ७१ ॥

 द्वाभ्यां नृसिंहावतारमाह-

 दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।
 दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ ७२ ॥

 दिव्येति ॥ दिव्यकेसरिवपुर्दिव्यसिंहमूर्तिः । एष हरिः आयुधैर्वज्रादिभिरपि नैव

पाठा०-१ 'श्रोत्र".२ "नवं नवं'.