पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
शिशुपालवधे

दङ्गात्' (८।२।२७) इति सलोपः । तर्हि विकत्थनः किं, नेत्याह-न व्यकत्थयदात्मश्लाघां न चकार । 'कत्थ श्लाघायाम्' । किंच इष्टं प्रियमपि दत्तं वस्तु नान्वशेत नानुतप्तवान् । दत्तानुतापस्यातिप्रत्यवायहेतुत्वादिति भावः । अत्रार्थिसंदोहयाञ्चादिबाहुल्यरूपकारणसामग्र्येऽपि विलम्बादिकार्यानुत्पत्तेर्विशेषोक्तिरलंकारः । 'तत्सामग्र्यादनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् । तथा दातुः सात्विकत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४५ ॥

 निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् ।
 वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ ४६॥

 निर्गुण इति ॥ दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । 'स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । मत्ते शौण्डोत्कटक्षीबाः' इत्यमरः । भूपतेः पुरोऽग्रे निर्गुणस्तपोविद्यादिगुणहीनोऽपि विमुखो निष्फलो नाभवत् , किंतु पूर्णकाम एवाभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । अत एव तेनापात्रवर्षदोषोऽपि न करुणवृत्तेरित्याशयेन दृष्टान्तमाह-वर्षुकस्येति । अपो जलानि । 'न लोक-' (२।३।६९) इत्यादिना षष्ठीप्रतिषेधः । वर्षुकस्य वर्षणशीलस्व । 'लषपत-' (३।२।१५४) इत्यादिना उकञ्प्रत्यये लघूपधगुणः । कृतोन्नतेः कृतोदयस्याम्बुदस्य । अम्बुदेनेत्यर्थः । 'कृत्यानां कर्तरि वा' (२।३।७१) इति षष्ठी । 'स्यादूषः क्षारमृत्तिका' इत्यमरः । तद्वत्क्षेत्रमूषरम् । 'उषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली' इत्यमरः । 'ऊषसुषिमुष्कमधो रः' (५।२।१०७)इति रप्रत्ययः । परिहार्यं त्याज्यं किम् । नेत्यर्थः । अत्र पर्जन्यभूपालयोर्वाक्यभेदेन बिम्बप्रतिबिम्बतया समानधर्माभिधानादृष्टान्तालंकारः ॥ ४६ ॥

 प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।
 दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥४७॥

 प्रेमेति ॥ तस्य राज्ञो गुणेष्वधिकं प्रेम नेति न, किंत्वस्त्येवेत्यर्थः । स राजा गुणान्तरं गुणविशेषं न वेद न वेत्ति स्मेति न च, किंतु वेदैवेत्यर्थः । 'लट् स्मे' (३।२।११८) इति भूतार्थे लट् 'विदो लटो वा' (३।४।८३) इति णलादेशः । 'संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ' इति वामनः । संभावितयोरविमर्शादेवागुणप्रीतिज्ञानयोर्निषेध इति भावः । तदपि तथापि । पृथिव्या ईश्वरः पार्थिवः । 'सर्वभूमिपृथिवीभ्यामणञौ' (५।१।४१) इत्यञ्प्रत्ययः । दित्सया दातुमिच्छया। सर्वपात्रदानकौतुकेनेत्यर्थः । 'सनि मीमा-' (७।४।५४) इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' (७।४।५८) इत्यभ्यासलोपः । अर्थिनं याचकं गुणी गुणवान् अगुण्यो नायं गुणवानिति न व्यजीगणन्न गणयति स्म । गुणप्रियोऽपि गुणज्ञोऽपि दानशौण्डोऽर्थितया गुण्यगुण्यौ न गणयामासेत्यर्थः । गतेर्णौ चङि 'ई च गणः' (७।४।९७) इत्यभ्यासस्य विकल्पादीकारः । अत्र गुणप्रियत्वगुणज्ञत्वरूपकारणसामग्र्येऽपि गुणागुणविमर्शरूपकार्यानुत्पत्तेः दित्सयेत्युक्तनिमित्ता विशेषोक्तिरलंकारः। 'तत्सामग्र्यामनुत्पत्तिर्विशेषोक्तिर्निगद्यत' इति लक्षणात् ॥४७॥

पाठा०-१ शौण्डतया अर्थिगतगुणावगुणौ न'.