पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४९
चतुर्दशः सर्गः ।

 दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति ।
 प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचोऽतिसर्जने ॥४८॥

 दर्शनेति ॥ वनीयकजनेऽर्थिजने । दर्शनानुपदं राजविलोकनान्तरमेव । प्रार्थनामकृत्वेत्यर्थः । 'वनीयको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । कामतो यथेच्छं स्वं धनमधिगच्छति लभमाने सति तदा दीयतामिति वचो दीयतामित्येतत्पदं प्रार्थना याचा 'मह्यं दीयताम्' इति वाञ्छा, सैवार्थस्तेन रहितं शून्यं सत्तदा अतिसर्जने त्यागेऽभवदवर्तत । 'मह्यं दीयताम्' इत्यर्थिवाक्याभावात् 'अस्मै दीयताम्' इति दातृवाक्यमेवान्वर्थमभूदित्यर्थः । अर्थिनामागमनमेव याचनमिति विवेकिनां किं याञ्चादैन्यदर्शनचापलेनेति भावः । अत्र दीयतामिति वचः संप्रार्थनार्थवर्जनेनासीत् । तेनातिसर्जनार्थताकथनादेकस्यानेकत्वप्रसक्तावेकत्र नियमनाख्या परिसंख्या ॥४८॥

 नानवाप्तवसुनार्थकाम्यता नाचिकित्सितगदेन रोगिणा ।
 इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः॥४९॥

 नेति ॥ अर्थकाम्यता अर्थमात्मन इच्छता धनार्थिना । 'काम्यच्च' (३।१।९) इति काम्यच्प्रत्यये सनाद्यन्तत्वेन धातुत्वाल्लटि शत्रादेशः । तत्सद उपेयुषा प्राप्तवता पुरुषेणानवाप्तवसुना अलब्धधनेन न प्रत्यगामि न प्रत्यावर्ति । रोगिणोपेयुषा अचिकित्सितगदेनाशमितरोगेण । 'रोगव्याधिगदामयाः' इत्यमरः । न प्रत्यगामि । अशितुं भोक्तुं इच्छता उपेयुषा अनाशुषा च अनशितेन । अभुक्तवतेत्यर्थः। 'उपेयिवाननाश्वाननूचानश्च' (३।२।१०९) इति क्वसुप्रत्ययान्तो निपातितः । न प्रत्यगामि किंतु सर्वेणापि पूर्णकामेनैव प्रत्यगामीत्यर्थः । गमेर्भावे लुङ् । अत्रार्थिरोगिक्षुधितानां प्रकृतानामेव पूर्णकामत्वसाम्याद्गम्यौपम्यत्वात्केवलप्रकृतविषया तुल्ययोगिता । तथा च यो यत्काम आगतः स तत्सर्वमेवास्मादलभतेति व्यज्यते ॥४९॥

 खादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसंकरैः ।
 भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ ५० ॥

 स्वादयन्निति ॥ अनेकानि बहूनि संस्कृतानि हिङ्गुमरीचादिना कृतसंस्काराणि प्राकृतानि प्रकृतिसिद्धानि संस्कारं विना स्वादूनि चूतफलादीनि च येषु तैः । अन्यत्रानेकविचित्रसंस्कृतप्राकृतौ भाषाविशेषौ येषु तैः । अकृतः पात्राणां भाजनानाम्, अन्यत्र भूमिकानां च संकरो व्यतिकरो येषु तैः । भावशुद्धिः पदार्थानां मृष्टता, अथवा भावशुद्धिः गर्हाविरहः तत्सहितैः । अन्यत्र भावाः स्थायिनो रत्यादयः तेषां शुद्धिः सजातीयविजातीयातिरस्कृतरूपकम् । 'सजातीयैविजातीयैरतिरस्कृतमूर्तिमान् । यावद्रसं वर्तमानः स्थायिभाव उदाहृतः ॥' इति तल्लक्षणात् । तत्सहितैर्भोजनैरभ्यवहारैर्नाटकै रूपकविशेषैरिव रसं मधुरादिकं शृङ्गारादिकं च स्वादयन्ननुभवन् जनो भोक्तृजनः सामाजिकजनश्च मुदमानन्दं बभार । श्लेषसंकीर्णेयमुपमा ॥ ५० ॥


शिशु० ३०