पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४७
चतुर्दशः सर्गः ।

संबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । तया राज्ञो निरङ्कुशाज्ञत्वं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४२ ॥

 आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।
 वाचि रोपितवताऽमुना महीं राजकाय विषया विभेजिरे॥४३॥

 आद्येति ॥ आद्यकोल आदिवराहः । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । तेन तुलितां कल्पादौ उद्धृताम् । तथापि प्रकम्पनैः प्रक्षोभकैर्हिरण्याक्षप्रमुखैः कम्पितां क्षोभितां महीम् । अनीदृगात्मन्यनेवंरूपायां केनाप्यकम्पितायामस्खलितायां वाचि रोपितवता स्थापितवता । स्थिरेण रोपणेन स्थिरीकुर्वतेत्यर्थः । अमुना राज्ञा राजकाय राज्ञां समूहाय । 'गोत्रोक्ष-' (४।२।३९) इत्यादिना वुञ्प्रत्ययः । विषया देशाः । 'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । विभेजिरे अस्यायमिति विभक्ताः । प्राक् दिग्विजयोद्धृतान् राज्ञः पुनः पदेषु स्थापयामासेत्यर्थः । अत्रादिवराहो महीमुद्धृतवानेव वाचैवासौ तु निरातङ्कं स्थापितवांश्चेत्युपमानादुपमेयस्याधिक्यकथनाद्व्यतिरेकालंकारः ॥ ४३ ॥

 आगताद्व्यवसितेन चेतसा सत्त्वसंपदविकारिमानसः ।
 तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखोऽर्थिनः ॥४४॥

 आगतादिति ॥ सत्त्वसंपदा सत्त्वगुणाधिक्येन अविकारिमानसः। लोभाभिभवाभ्यामनुपप्लुतचित्त इत्यर्थः । 'सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः' इति विश्वः । असौ राजा तत्र तस्मिन्नासमन्ताज्जुह्वत्यस्मिन्नित्याहवो यागः । 'ऋदोरप्' (३।३।५७) इति जुहोतेरप्प्रत्यये गुणावादेशौ । आहूयन्ते शत्रवो यस्मिन्नित्याहवो युद्धम् । 'आङि युद्धे' इति ह्वयतेराङ्पूर्वादप्प्रत्ययः संप्रसारणम् । 'आहवो यागयुद्धयोः' इति विश्वः । महांश्चासौ स च महाहवस्तस्मिन्महाहवे व्यवसितेन निश्चितेन धनलाभं निश्चितवता । अन्यत्र शेत्रोर्मृत्युरेवेति निश्चितवतेत्यर्थः । व्यवपूर्वात्स्यतेः सकर्मकत्वादप्यविवक्षिते कर्मणि कर्तरि क्तः । 'प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया' इति वचनात् । चेतसा आगतात् । चेतसा स्वयं निश्चित्यागतादित्यर्थः । अर्थिनो याचकात् । शत्रुरेव शात्रवः । स्वार्थेऽण्प्रत्ययो राक्षसवत् । तस्मादिव पराङ्मुखो नाभवत् । 'आहवेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥' (मनु० ७।८८) इति मनुस्मरणादिति भावः । श्लेषसंकीर्णेयमुपमा ॥ ४४ ॥

 नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् ।
 नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः॥४५॥

 नैक्षतेति ॥ स राजा अर्थिनं याचकं मुहुरवज्ञया अनादरेण नैक्षत । तर्हि विलम्बितं किं, नेत्याह-याचितस्तु प्रार्थित एव कालं नाक्षिपन्न यापयामास । याचकबहुत्वात् । तर्ह्यल्पदाता नेत्याह-अल्पमपि नादित न ददौ । किंतु यथार्थिकाममिति भावः । ददातेर्लुङि तङि 'स्थाघ्वोरिच्च' (१।२।१७) इतीकारः 'ह्रस्वा-

पाठा०-१ 'लोभभयाभ्यां'. २ 'जयो मृत्युर्वेति'.