पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
शिशुपालवधे

वपि' इति विश्वः । नृपाः स्वयमुपनीय तस्य राज्ञोऽवसरकाङ्क्षिणः सेवावसरं प्रतीक्षमाणा बहिरासत स्थिता इत्यैश्वर्यातिशयोक्तिः । अत्र रत्ने उपदात्वस्यारोप्यमाणस्य प्रकृतोपयोगात्परिणामालंकारः ॥ ३९ ॥

 एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः।
 त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥४०॥

 एक इति ॥ एक एव नृपो यद्वसु धनं ददौ । उपायनमिति भावः । तद्धनमेव क्रतोः समापकं संपूरकमतर्क्यत । दक्षिणादानादिसर्वक्रतुव्ययपर्याप्ततया तर्कितमित्यर्थः । तपःसुते धर्मपुत्रे त्यागशालिनि सति सर्वपार्थिवधनान्यपि क्षयं व्ययं ययुः । अत्रैकपार्थिवधनस्य क्रतुसमापकत्वासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः । तयोश्च सापेक्षत्वात्सजातीयसंकरः ॥ ४०॥

 प्रीतिरस्य ददतोऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।
 स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥४१॥

 प्रीतिरिति ॥ ददतो दानं कुर्वतोऽस्य राज्ञस्तथा तेनैव प्रकारेण राजोपायनानामर्थिसात्करणेनैव प्रीतिरभवदासीत् । न तु कोशगृहार्पणेनेत्यर्थः । कुतः । येन प्रकारेण तस्य राज्ञः प्रियचिकीर्षवः प्रियं कर्तुमिच्छवः । मधुपिपासुप्रभृतित्वाद्द्वितीयासमासः । नृपाः स्पर्शितैः प्रतिपादितैः । 'स्पर्शनं प्रतिपादनम्' इत्यमरः । उपायनैरुपहारैरधिकं यथा तथा मुदमागमन् प्राप्ताः । तथैव प्रभुप्रीतिसिद्धेः स्वोपायनानां सिद्धिनियोगलाभाच्चेति भावः । अधिवेश्म वेश्मनि निहितैरुपायनैर्मुदं नागमन् । तथोक्तप्रयोजनासिद्धेरिति भावः । येनैव राज्ञां मोदः स्वस्य च महान्धर्मलाभः तेनोपायनानामर्थिसात्करणादेव राज्ञः प्रीतिरासीत् , न कोशगृहार्पणादित्यर्थः । अत एव दानसंग्रहयोः प्रकृतयोः प्रीतेः संग्रहपरिहारेण दान एव नियमनात्परिसंख्यालंकारः । 'एकस्यानेकत्र प्राप्तावेकत्र नियमनं परिसंख्ये' ति लक्षणात् । एतेन सर्वस्वदानं व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥ ४१ ॥

 यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।
 सस्पृहं नृपतिभिर्नृपोऽपरैगौरवेण ददृशेतरामसौ ॥ ४२ ॥

 यमिति ॥ लघूकृता अल्पीकृता अहिताः शत्रवो येन सः । स राजा शिष्येण तुल्यं शिष्यभूतम् । 'भूतं क्षमादौ पिशाचादौ न्याय्ये सत्योपमानयोः' इति विश्वः। सुप्सुपेति नित्यसमासः । यं नृपं लघुन्यप्यल्पेऽपि यज्ञीयपशुरक्षणादिकर्मण्यशिषदाज्ञापितवान् । 'सर्तिशास्त्यर्तिभ्यश्च' (३।१॥५६) इति लुङि च्लेरङादेशः 'शास इदङ्हलोः' (६।४।३४) इतीकारः । असौ कर्मकरो नृपः अपरैस्ततोऽन्यैनृपतिभिः सस्पृहं अहो संमान इति साभिलाषं गौरवेण ददृशेतरामतिशयेन दृष्टः । दृशेः कर्मणि लिट् 'तिङश्च' (५।३।५६) इति तरपूप्रत्यये किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे' (५।४।११) इत्यामुप्रत्ययः । 'तद्धितश्चासर्वविभक्तिः' (१।१।३८) इत्यव्ययसंज्ञा । अत्र कर्मकरनृपस्येतरनृपकर्तृकविशिष्टदर्शनकर्मत्वा-

-