सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४५
चतुर्दशः सर्गः ।

 शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलमवर्णसंकरैः।
 पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥३७॥

 शुद्धमिति ॥ असौ नृपः शुद्धमाचारपूतम् । अन्यत्र विभक्तिविपरिणामेन शुद्धैरकङ्कैः । श्रुतिविरोधि वेदविरुद्धं न भवतीत्यश्रुतिविरोधि शास्त्रं बिभ्रतमात्मनि धारयन्तम् । सकलवैदिकशास्त्राभिज्ञमित्यर्थः । 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुम्प्रतिषेधः । अन्यत्र श्रुत्यविरोधिभिः पुराणादिभिः । वाच्यमानमन्वयगुणादिक्रमेण प्रस्तूयमानम् , अन्यत्र वाच्यमानैर्द्विजगणेन व्याख्यायमानैरित्यर्थः । वचेश्चौरादिकात्कर्मणि लटः शानजादेशः । द्विजन्मनां ब्राह्मणानां गणं अवर्णसंकरैरसंकीर्णाक्षरैः, अन्यत्र जातिसंकररहितमिति विपरिणामः । पुस्तकैः समं पुस्तकाक्षरैर्वाक्यैः सह अशृणोत् । दानकाले प्रत्येकं ब्राह्मणानां गुणान् गोष्टीश्च श्रुतवानित्यर्थः । मुखस्थविद्यानामपि पुस्तकधारणं विलक्षणत्वेनोक्तमित्यदोषः। अन्यत्र पुस्तकैः समं द्विजगणमशृणोदिति संबन्धिभेदभिन्नयोः श्रवणयोरभेदाध्यवसायभेदेऽभेदरूपातिशयोक्तिचमत्कारिणी द्विजानां प्रकृतत्वात् पुस्तकानीव द्विजानिति वैवक्षिकोपमानोपमेयभावपर्यवसायिनी श्लेषसंकीर्णसहोक्तिरलंकारः । 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेष्यते' इति लक्षणात् । केचित्पुस्तकैः समं वाच्यमानमिति योजयित्वा पुस्तकेषु द्विजगणान् , लेख्येष्वायतमानानिति व्याचक्षते । तैः पुस्तकेषु शास्त्रभरणासंभवादवर्णसंकरेति श्लिष्टविशेषणावगतप्रकृतश्लेषभङ्गः पुस्तकानां च वाचनकरणत्वात्समादिशब्दवैयर्थ्यमुक्तसहोक्त्यलंकारभ्रंशश्चेत्येवमादयो दोषा दुस्तरा इत्यलं विस्तरेण ॥ ३७॥

 तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।
 आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥३८॥

 तदिति ॥ अनिवारिता अप्रत्याख्याता अतिथयो येन स आश्रमाणां ब्रह्मचर्यादीनां गुरुर्नियन्ता स राजा । आ समन्ताज्जुह्वत्यस्मिन्नित्याहवनं यागम् । जुहोतेर्ल्युट् । द्रष्टुमुपेयुषामागतानाम् । अत एव प्रणीतमनसां सत्कर्मदर्शनाद्धृष्टचित्तानामग्रजन्मनाम् द्विजानाम् । अतिथिषु साध्वातिथेयमतिथिसत्कारम् । 'पथ्यतिथि-' (१।४।१०४) इत्यादिना ढञ्प्रत्ययः । कर्तुं नाश्रमन्न श्रान्तः । श्राम्यतेः पुषादित्वाल्लुङि च्लेरङादेशः । अत्रानिवारितातिथित्वस्य विशेषणगत्या श्रमनिषेधहेतुत्वात्काव्यलिङ्गं तदनुप्रासेन संसृज्यते ॥ ३८॥

 मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।
 आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ ३९ ॥

 मृग्यमाणमिति ॥ यद्रत्नं मृग्यमाणमन्विष्यमाणमपि दुरासदं दुर्लभम् । भूरिसारं महासारमुपदीकृतमुपायनीकृतम् । मनसा यथासंकल्पितमित्यर्थः ।'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः । तद्रत्नं श्रेष्ठवस्तु । 'रत्नं श्रेष्ठे मणा-

पाठा०-१ "प्रतीत". २ 'आलेख्येयेष्वाभिलिख्यायमानम्'.