सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
शिशुपालवधे

 वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।
 भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपोऽवपत् ॥३४॥}}

 वारीति ॥ नराधिपो राजा सत्क्रियाभिरभिषेकसंस्कारैर्लब्धा शुद्धिर्निर्दोषता याभिस्तास्वखिलासु । द्विजा एव क्षेत्रभूमयः केदारभूमयस्तासु । 'क्षेत्रं गेहे पुरे देहे केदारे योनिभार्ययोः' इति वैजयन्ती । भावि भविष्यन्महत्फलं स्वर्गादिकं धान्यादिकं च बिभ्रति । बिभ्राणानीत्यर्थः । 'वा नपुंसकस्य' (७।१।७९)इति विकल्पान्नुमागमप्रतिषेधः । धनानि बीजवद्बीजैस्तुल्यं वारिपूर्वमुदकदानपूर्वकमवपदुप्तवान् । दत्तवानित्यर्थः । अत्र बीजवदित्युपमानम् 'तेन तुल्यम्-' (५।१।११५) इति तुल्यार्थे वतेर्विधानात् । तथापि वापक्रियायोगाद्द्विजक्षेत्रेति रूपकसमासो नोपमितसमासः । किंतु रूपकस्याङ्गमुपमा तदुत्थापितत्वादिति संकरः॥३४॥

 किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।
 राजतः पुपुविरे निरेनसःप्राप्य तेऽपि विमलं प्रतिग्रहम् ॥३५॥

 किमिति ॥ भूपतिरधिवेदि वेद्याम् । मखवेद्यामित्यर्थः । अत्र विभक्त्यर्थेऽव्ययीभावः । द्विजगणानृत्विग्गणान् दक्षयन्हर्षयन् दक्षिणाप्रतिग्रहेण सदक्षिणान्कुर्वन् । प्रतिग्राहयन्नित्यर्थः । तत्क्षणे दक्षिणां प्रतिगृह्येति श्रुतिदर्शनात् । 'दक्ष नैपुण्ये' इति धातोर्ण्यन्ताल्लठः शत्रादेशः । अत एव 'निष्णाते दक्षिणे वापि नैपुण्ये निपुणेऽपि च' इति भट्टः । अपूयत पूतोऽभवदिति कर्मकर्तरि लङ् । किं चित्रं दाता पूत इति । न चित्रमित्यर्थः। किंतु प्रतिग्रहीतापि पूत इति चित्रमाह । ते द्विजगणा अपि निरेनसो निष्पापात् राजतो राज्ञः । पञ्चम्यास्तसिल् । विमलं शुद्धं प्रतिग्रहं प्राप्य पुपुविरे पूता बभूवुः । 'विशुद्धाच्च प्रतिग्रहः' इत्यभिधानादिति भावः । अत्रापि पूञः कर्मकर्तरि लिट् । प्रतिग्रहीतापि शुद्ध इति विरोधः। स एव वाक्यार्थभूतश्चित्रत्वनिषेधहेतुरिति विरोधवाक्यार्थहेतुककाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः ॥ ३५॥

 स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।
 आ शशाङ्कतपनार्णवस्थितेर्विप्रसादकृत भूयसीर्भुवः ॥३६॥

 स इति ॥ पाको नाम कोऽपि राक्षसस्तस्य शासनः शासको हन्ता पाकशासनः इन्द्रस्तेन समानं शासनं तुल्याज्ञा यस्य स इत्यर्थः । स राजा स्वहस्तेन कृतं लिखितं चिह्न स्वनामलेखनादिलाञ्छनं येषु तानि शासनानि नियमपत्राणि यस्य सः। दत्तस्वहस्तलेखाङ्कितशासनः सन्नित्यर्थः । आ शशाङ्कतपनार्णवस्थितेः शशाङ्कतपनार्णवानभिव्याप्य । आकल्पमित्यर्थः । अभिविधावाङ् । 'आङ्रमर्यादाभिविध्योः' (२।१।१३) इति विकल्पादसमासः । भूयसीर्भुवो देयभूमीः विप्रसाद्विप्राधीनाः । 'देये त्रा च' (५।४।५५) इति चकारत्सातिप्रत्ययः । अकृत कृतवान् । दत्तवानित्यर्थः । कृञो लुङि तङ् 'उश्च' (१।२।१२) इति सिचः कित्त्वात् 'ह्र्स्वादङ्गात्' (८।२।२७) इति सकारलोपो गुणाभावश्च । पाकशासनसमानशासन इत्युपमानुप्रासयोः संसृष्टिः ॥ ३६ ॥