पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
शिशुपालवधे

हारेण मुक्ताहारेण शबलं शारं वपुर्दधद्व्याजहार व्याहृतवान् । अत्र दशनांशुमण्डलस्य व्याजशब्देनासत्यत्वप्रतिपादनादपह्नवभेदः ॥ १२ ॥

 यदुक्तं 'सा विभूतिः' (१४५) इत्यादि तत्रोत्तरमाह-

 सादिताखिलनृपं महन्महः संप्रति वनयसंपदैव ते ।
 किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १३ ॥

 सादितेति ॥ संप्रति ते तव महन्महस्तेजः स्वनयसंपदैव निजनीतिमहिनैव सादिताखिलनृपं विजितसमस्तराजकं न तु मदनुभावादिति भावः । तथा हि पथ्या हिता वृत्तिरन्नपानादिक्रिया यस्य सोऽप्यरोगितामारोग्यं समश्र्नुते यदि प्रामोतीति चेत् । सोऽपि तदारोग्यमित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गता । परस्य भिषजः स गुणः किं नेत्यर्थः । अपथ्यवृत्तेरारोग्यमौषधसाध्यत्वाद्भिषजो गुणोऽस्तु, हितमेध्याशिनो न तथेत्यर्थः । स्वयमसमर्थः । पराधीनसिद्धिरित्युपचार इति भावः । दृष्टान्तालंकारः सुगमः ॥ १३ ॥  यदुक्तं 'पूर्वमङ्ग जुहुधि त्वमेव' (१४।१०) इति तत्राह-

 तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।
 द्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥१४॥

 तदिति ॥ तत्तस्मादुक्तरीत्या । तवैवाधिकारित्वादित्यर्थः । सुराज्ञि विजयप्रजारक्षणादिगुणयोगाच्छुद्धक्षत्रिये । 'न पूजनात्' (५।४।६९) इति समासान्तप्रतिषेधः । भवति त्वयि पुरः स्थिते सति । कः । त्वदन्यः क इत्यर्थः । राज्ञः क्षत्रियस्य लक्षणं चिह्नमसाधारणं यस्य तं क्रतुम् । राजसूयमित्यर्थः । यजतु । न कोऽपीत्यर्थः । 'राजा राजसूयेन यजेत' इति राजाधिकारताश्रवणाद्राजा त्वमेवेति भावः । संभावनायां लोट् । अत्र दृष्टान्तमाह-भुव उद्धृतौ भुव उद्धरणे श्रीवराहमादिवराहमपहाय कस्य पुनर्योग्यता सामर्थ्यं भवति । न कस्यापीत्यर्थः । योगाय प्रभवतीति योग्यः । 'योगाद्यच्च' (५।१।१०२) इति यत्प्रत्ययः । अत्र राजवराहयोर्वाक्यभेदेन प्रतिबिम्बकरणादृष्टान्तालंकारः ॥ १४ ॥

 यच्चोक्तं 'संभृतोपकरणेन' (१४।७) इत्यादिना, तत्र गृहीतलक्षणोऽस्मीत्याह-

 शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष कामतः ।
 त्वत्प्रयोजनधनं धनंजयादन्य एष इति मां च मावगाः ॥१५॥

 शासन इति ॥ गुरुण्यतिदुष्करेऽपि शासने नियोगे व्यवस्थितम् । त्वदाज्ञाकरमित्यर्थः । मां कृत्यवस्तुषु कर्तव्यार्थेषु कामतो यथेच्छं नियुङ्क्ष्व प्रेषय । अनुचितमेतन्नियन्तरीति संकोचं वारयन्नाह-त्वदिति । त्वत्प्रयोजनमेव धनं यस्य तम् ।त्वदर्थैकनिष्ठमित्यर्थः । मां धनानि जयतीति धनंजयोऽर्जुनः । 'संज्ञायां भृृतृृवृजिधारिसहितपिदमः' (३।२।४६) इति खश्प्रत्यये मुमागमः । तस्मादेषोऽन्यः कृष्ण