पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३७
चतुर्दशः सर्गः ।

इति मां मावगाः मावेहि च । नियोगसमुच्चयार्थश्चकारः । अवपूर्वादिणो 'माङि लुइ', (३।३।१७५) 'इणो गा लुङि' (२।४।४५) इति गादेशः 'न माङ्योगे' (६।४।७४) इत्यदप्रतिषेधः । उभयोस्तत्कार्यनिबन्धनान्नारायणात्मत्वाच्च नावयोर्मेदप्रतिपत्तिः कार्येत्यर्थः । तथा च तद्वदेव कर्मसु नियोगेऽप्यसंकोच उचित इति भावः । अत एवानयोर्वाक्यार्थयोर्हेतुहेतुमद्भावाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः। स च कृष्णयोर्भेदाभेदरूपातिशयोक्तिमूल इत्यनयोरङ्गाङ्गिभावेन संकरः ॥ १५ ॥ यच्चोक्तं 'वीतविघ्नम्' (१४८) इत्यादि तत्राभयदानं प्रतिजानीते-

 यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।
 तस्य नेष्यति वपुः कबन्धतां बन्धुरेष जगतां सुदर्शनः ॥ १६ ।।

 य इति ॥ यो भूपतिः तवेहास्मिन् सवने यज्ञे । 'सवनं यजने स्नाने सोमे निर्दलनेऽपि च' इति विश्वः । कर्मकरवद्भृत्यवत्कर्म न करिष्यति तस्य भूपतेर्वपुः जगतां बन्धुः । क्षेमंकरत्वादिति भावः । एष सुदर्शनो मच्चक्रम् । 'शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्' इत्यमरः। कबन्धतां शिरःशून्यतां नेष्यति प्रापयिष्यति । चक्रेणास्य शिरश्छेत्स्यामि इत्यर्थः । 'कबन्धं सलिले प्रोक्तमपमूर्धकलेवरे' इति विश्वः । अतो विघ्नशङ्का न कार्येति भावः । अत्र सुदर्शने बन्धुत्वरूपणाद्रूपकालंकारः ॥ १६ ॥

 इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।
 सर्वसंपदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥१७॥

 इतीति ॥ इतीत्थमुदीरितगिरमुपन्यस्तवाचं शौरिं हरिं नृपो युधिष्ठिरः त्वयि श्रेयस्यभ्युदये विषये स्थितवति सति । त्वयि क्षेमंकरे सतीत्यर्थः । मम सर्वसंपत् स्थिरेत्युक्तवान् । मुदमुद्वहन् सहायसंपत्त्या संतुष्यन् सन् । क्रतावुदस्थित । क्रतुं कर्तुमुद्युक्तवानित्यर्थः । तिष्ठतेर्लुङि 'उदोऽनूर्ध्वकर्मणि' (॥३।२४) इत्यादिनात्मनेपदं 'स्थाध्वोरिच' (१।२।१७) इति सिचः कित्वादिकारः । 'हस्वादङ्गात्' (८।२।२७) इति सकारलोपः ॥ १७ ॥ अथ पञ्चत्रिंशच्छ्शोकैरनेकधा क्रतुं वर्णयति-

 आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।
 आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १८ ॥

 आननेनेत्यादि ॥ आननेन शशिनः कलामिव कलां कान्तिं दधत् । निदर्शनालंकारः । शशिमुख इत्यर्थः । अन्यत्र शशिखण्डधरेत्यर्थः । दर्शनेन ज्ञानेन क्षयितौ नाशितौ कामविग्रहौ कामक्रोधौ येन सः, अन्यत्र दृष्टिदग्धस्मरशरीरः । विमलैर्जलैः आप्लुतः स्नातः । नद्यां स्नातीति दीक्षायां स्नानविधानादिति भावः । अन्यत्र गङ्गोदकसिक्ता । गङ्गाधरीत्यर्थः । स नृपः अष्टानां पूरणी अष्टमी । 'तस्य पूरणे डट्' (५।२।४८) इति डट् प्रत्ययः । 'नान्तादसंख्यादेर्मट्' (५।२।४९) इति मडागमः ‘टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । अष्टानां मूर्तीनां


शिशु० २९