पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३५
चतुर्दशः सर्गः ।

विजितमिति शास्त्रोक्तप्रकारादित्यर्थः । अधिगम्य लब्ध्वा यत्नेन पर्यपालयं पालितवान्, अवीवृधं वृद्धिं च प्रापितवान् । तत्तीर्थगामि विप्राधीनं करवै करिष्यामि। विधानतः पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत्' (याज्ञ० आ० ३१७) इति स्मरणात् । तच्च पात्रं त्वमेवेत्याह-तत्सर्वं जुषस्व सेवस्व । सदैव भुङ्क्ष्वेत्यर्थः । 'जुषी प्रीतिसेवनयोः' इति धातोर्लोट् । अनले जुहवानि च जुहुयाम् । तन्मुखेनापि तवैव भोक्तृत्वादिति भावः । जुहोतेः संप्रश्नलोटि मेर्निरादेशः ॥ ९ ॥

 पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।
 सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥१०॥

 पूर्वमिति ॥ वेति पक्षान्तरे । अथवेत्यर्थः । अङ्ग हे कृष्ण, 'अथ संबोधनार्थकाः । स्युः प्याटपाडङ्ग हे है भोः' इत्यमरः । पूर्वं त्वमेव जुहुधि । यजस्वेत्यर्थः । 'हुझल्भ्यो हेर्धिः' (६।४।१०१) इति हेर्धिरादेशः । सोमपायिनि त्वयि अवभृथे यज्ञे । 'दीक्षान्तोऽवभृथो यज्ञे' इत्यमरः । स्नातवति सति ततोऽनन्तरं मया वाञ्छित उत्तमो वितानः क्रतुः राजसूयाख्यः । 'ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके' इत्यमरः । तेन यथा याजिना भविष्यते । भावे लुट् । त्वयि इष्टवति पश्चादहं यक्ष्य इत्यर्थः । अत्र श्लोकद्वयेन हरेर्यागासंबन्धे तत्संबन्धोक्तेरतिशयोक्तिः ॥ १० ॥

 किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसंपदा ।
 शाधि शासक जगत्त्रयस्य मामाश्रवोऽस्मि भवतः सहानुजः ॥११॥

 किमिति ॥ अथवा त्वत्प्रसादेन त्वदनुग्रहेण जितया जयलब्धयाऽनयाऽर्थसंपदा धनसंपदा किं विधेयं किमनुष्ठेयं विधीयतां त्वयैव क्रियताम् । अहं तु न स्वतन्त्र इत्याह-हे जगत्त्रयस्य शासक । न तु ममैवेति भावः । मां शाधि । नियुङ्क्षेत्यर्थः । शासेर्लोटि 'हुझल्भ्यो हेर्धिः' (६।४।१०१) इति धिरादेशः । 'झलो झलि' (८।२।२६) इति सकारलोपः । सहानुजः सानुजः सन् 'वोपसर्जनस्य' (६।३।८२) इति सहशब्दस्य सभावविकल्पः । भवतस्तवाश्रवो विधेयोऽस्मि । 'विधेयो विनयग्राही वचने स्थित आश्रवः' इत्यमरः । अत्रानाश्रवस्याश्रवत्वसंबन्धोक्तेरतिशयोक्तिरिति दशश्लोक्याप्रियतरामतेऽतिप्रियतराख्यानात्प्रेयोऽलंकारः । 'प्रेयः प्रियतराख्यानम्' इति लक्षणात् । आधुनिकास्तु भावनिबन्धने प्रेयोऽलंकार इति लक्षयन्ति । स चोन्नीतस्तत्र तत्रोन्नेष्यते च ॥ ११ ॥

 तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः।
 व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥१२॥

 तमिति ॥ अथानन्तरं विष्टराविव श्रवसी यस्य स विष्टरश्रवाः कृष्णः । 'विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः' इत्यमरः । इति एतादृशं तं वदन्तं नृपम् । समस्तभूभृतः सर्वान्नृपाञ्श्रावयन् दशनांशुमण्डलमिति व्याजोऽपदेशो यस्य तेन