पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९४
शिशुपालवधे

गृह्णातीत्यङ्कुशग्रहो निषादी सोऽवमतो येन सः निषादिना साङ्कुशं तिरोगतम् । अङ्कुशाकर्षणेन तिर्यग्भूतं शिरो मस्तकमुद्वहन् गजः अग्रयाताग्रकरः करिणीग्रहणाय प्रसारितकराग्रो भूत्वा स्थूलोच्चयेन गतिविशेषेणागमज्जगाम । 'गजमध्यगतौ स्थूलोच्चयः साकल्यपुञ्जयोः' इति रत्नप्रकाशः ॥ १६॥

 यान्तोऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः।
 अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः॥१७॥

 यान्त इति ॥ जवाद्वेगाच्चरणैरवनिमस्पृशन्त इव यान्तः सेनातुरगा अभितः प्रकीर्णैरुभयतः प्रसृतैः प्रकीर्णकैश्चामरैः । 'चामरं तु प्रकीर्णकम्' इत्यमरः । कण्ठभूषणचामरैर्हेतुभिरद्यापि अलूनपक्षा इवेति सविस्मयैर्जनैर्मेनिरे । पूर्वं तुरगाणामपि पक्षा आसन् पश्चात्केनचित्कारणेन देवैः पक्षच्छेदः कारित इति प्रसिद्धिः ॥ १७ ॥

 ऋज्वीर्दधानैरवतत्य कंधराश्चलावचूडाः कलघर्घरास्वैः ।
 भूमिमहत्यप्यविलम्बितक्रमं क्रमेलकैस्तत्क्षणमेव चिच्छिदे ॥१८॥

 ऋज्वीरिति ॥ ऋज्वीरवक्राः चलावचूडाः चलितकण्ठभूषणाः । 'शिरःशिखाभूषणेषु चूडा' इति यादवः । चलितशिरस इति वा । कंधराः शिरोधरा अवतत्य वितत्य दधानः कलघर्घरारवैः । 'घर्घरा क्षुद्रघण्टा स्यात्' इति शाश्वतः । अथवा घर्घरारव इति शब्दानुकरणम् । क्रमेलकैरुष्ट्रैः अविलम्बितक्रमम् , क्रमः पदक्षेपः । द्रुतपादक्षेपं यथा तथा महत्यपि भूमिस्तत्क्षणमेव चिच्छिदेऽतिक्रान्ता । स्वभावोक्तिः ॥ १८॥

 तूर्णं प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्यमध्वनि ।
 आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तिभयादिवाद्रवत्॥१९॥

 तूर्णमिति ॥ प्रणेत्रा सारथिना प्रणोदितं गमनाय प्रेरितम् । अत एव उच्चकैरुच्चैस्तरां कृतनादं यथा तथा वेसरयुग्यम् । संकराश्वो वेसरः । वेसराभ्यां युग्यं शकटमात्मीयनेमिः स्वचक्रधारा तया क्षतस्य सान्द्रस्य मेदिनीरजसश्चयेन समूहेन यदाक्रमणं तद्भयादिव तूर्णमध्वन्यद्रवत् । आत्मीयनेमिसमुद्भूतधूलिजालेनास्पृष्टं सत् द्रुतमगमदित्यर्थः ॥ १९ ॥

 व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजद्भिरेव क्षणमीक्षिताननाः ।
 वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरंगाधिरुहोऽवरोधिकाः॥२०॥

 व्यावृत्तेति ॥ व्यावृत्तवक्त्रैर्विवृत्तमुखैः व्रजद्भिरेवाखिलैः चमूचरैः क्षणमीक्षिताननाः तुरंगाधिरुहः । तुरंगानधिरुहन्तीति क्विप् । तुरंगाधिरूढा अवरोधिका अवरोधस्त्रियो वल्गद्भिश्चलद्भिः गरीयोभिर्गुरुतरैः स्तनैः कम्प्रः कम्पनशीलः कञ्चुकः कूर्पासो यस्मिन्कर्मणि तद्यथा तथा ययुः । 'नमिकम्पि-' (३।२।१६७) इत्यादिना रः प्रत्ययः ॥२०॥ पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः । भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥ २१॥

पाठा०-१ 'ततघर्घरा०’.

२ 'संततघण्टास्वनैः'.