पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९५
द्वादशः सर्गः ।

 पादैरिति ॥ कूबरिणां रथानाम् । 'कूबरस्तु युगंधरः' इत्यमरः । स एषामस्तीति ते रथास्तेषां पादैः चक्रैः पुरः पूर्वं विदारिताः ततो गजैः प्रकाममाक्रान्ततलाः भग्नैरुक्तप्रकारेण पूर्वं भग्नत्वादुन्नतैरनन्तरैरुभयभागैः पूरितान्तराः समीकृतनिम्नप्रदेशाः । यद्वा पूर्वं रथचक्रविदारितत्वाद्भग्नोन्नता अनन्तरं गजपतिपरिक्रमणेन पूरितानतप्रदेशाः भुवः कृष्टसमीकृताः पूर्वं हलैः कृष्टा अनन्तरं बीजवपनार्थं समीकृता इव बभुः शुशुभिरे ॥ २१ ॥

 दुर्दान्तमुत्कृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ।
 पर्याणतः स्रस्तमुरोविलम्बिनस्तुरंगमं प्रद्रुतमेकया दिशा ॥२२॥

 दुर्दान्तमिति ॥ उरोविलम्बिनः पर्याणतः पल्ययनतः स्रस्तमत एवोत्प्लुत्य निरस्तसादिनं स्वपृष्टात्पातितावरोहमेकया दिशा प्रद्रुतं पलायितं दुर्दान्तं दुर्विनीतं तुरंगमं हासकृतेन हाकारेण सह यथा तथा जनोऽवलोकयदवलोकितवान् ॥२२॥

 भूभृद्भिरप्यस्खलिताः खलूनतैरपह्नुवाना सरितः पृथूरपि ।
 अन्वर्थसंज्ञैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥२३॥

 भूभृद्भिरिति ॥ उन्नतैरपि भूभृद्भिः भूधरैर्भूपैश्चास्खलिता अप्रतिहताः पृथूर्महतीरपि सरितो यमुनाप्रभृतीर्नदीरपह्नुवाना स्वमहिम्नाच्छादयन्ती त्रिभिर्मागैर्गच्छतीति त्रिमार्गगा गङ्गा परमत्यन्तमन्वर्था अनुगतार्था संज्ञा 'त्रिमार्गगा' इति नामधेयं यस्याः सैव खलु त्रिभिरेव मागैर्ययौ न चतुर्थेनेत्यर्थः । असौ चमूस्त्वसंख्यैः पथिभिर्ययौ । अतो गङ्गाया अप्यधिका चमूरिति भावः । अत एव व्यतिरेकालंकारः । 'भेदप्राधान्यसाधर्म्यमुपमानोपमेययोः । अधिकाल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥' इति तल्लक्षणात् ॥ २३ ॥

 त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।
 क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः॥२४॥

 त्रस्ताविति ॥ समासन्नस्य प्रत्यासन्नस्य करेणोरिभस्य सूत्कृतात्सूत्कारात्त्रस्तौ करभौ वेसरौ । 'करभो वेसरेऽप्युष्ट्रे' इति सज्जनः । नियन्तरि सारथौ व्याकुलं व्यग्रं यथा तथा मुक्तरज्जुके त्यक्तप्रग्रहे सति क्षिप्ताः पतिता अवरोधाङ्गना यस्मिन्कर्मणि तद्यथा तथा उत्पथेनापथेन । 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । गां भूमिं विलङ्घय दूरमतीत्य लघ्वी रथविशेषम् । 'लघ्वी लाघवयुक्तायां प्रभेदे स्यन्दनस्य च' इति हैमः । बभञ्जतुर्भग्नवन्तौ । अत्र त्रासस्य विशेषणगत्या भञ्जनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं स्वभावोक्त्या संकीर्यते ॥ २४ ॥

 स्रस्ताङ्गसंधौ विगताक्षपाटवे रुजा निकामं विकलीकृते रथे ।
 आप्तेन तक्ष्णा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥२५॥

 स्रस्तेति ॥ स्रस्ता विश्लिष्टा अङ्गयो रथाङ्गयोरङ्गानां करचरणादीनां च संधयः संधिभागा यस्य तस्मिन् विगतमक्षस्य चक्राधारकाष्ठस्याक्षाणामिन्द्रियाणां च पाटवं पाठा०-१'त्रस्त०’. २ 'सहसहाकारं हास्यदर्शनजनितेन हासेन हासशब्देन च

सहितं यथा तथा, अथवा'.