पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९३
द्वादशः सर्गः ।

 प्रत्यन्यनागं चलितस्त्वरावता निरस्य कुण्ठं दधताप्यमङ्कुशम् ।
 मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदो निषादिना ॥१२॥

 प्रत्यन्येति ॥ अन्यनागं प्रति चलित ऊर्ध्वायतदन्तमण्डलं मूर्धानं धुवन् कम्पयन् द्विरदः कुण्ठमतीक्ष्णमङ्कुशं निरस्यस्य अन्यमकुण्ठमङ्कुशं दधता त्वरावता निषादिना अरोधि रुद्धः ॥ १२ ॥

 संमूर्च्छदुच्छृङ्खलशङ्खनिःस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।
 सत्त्वानि निन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीभृतां १३

 संमूर्च्छदिति ॥ 'मुर्छा मोहसमुच्छ्राययोः' इति धातुः । संमूर्च्छन्नुच्छ्रायं गच्छन् प्रचुरीभवन्नुच्छृङ्खलोऽनर्गलः सर्वव्यापी शङ्खस्य निःस्वनो यस्मिन्सः शार्ङ्गिणि प्रयाते यातुमुपक्रान्ते पटहस्य स्वनः द्वयेषामुभयेषामपि मेदिनीभृतां राज्ञां, पर्वतानां च महान्त्यपि सत्त्वानि बलानि, भूतानि च नितरां व्यथां निन्ये । कृष्णस्य पटहश्रवणाद्राज्ञां बलान्यभिभवशङ्कया व्यथितान्यासन् । तथा गिरिस्थिताः सिंहादयो जन्तवश्व किमिदमिति ससाध्वसा आसन्नित्यर्थः। 'व्यवसाये स्वभावे च पिशाचादौ गुणे बले । द्रव्यात्मभावयोश्चैव सत्त्वं प्राणेषु जन्तुषु ॥' इति शाश्वतः॥१३॥

 कालीयकक्षोदविलेपनश्रियं दिशदिशामुल्लसदंशुमद्द्युति ।
 खातं खुरैर्मुद्गभुजां विपप्रथे गिरेरधः काञ्चनभूमिजं रजः॥१४॥

 कालीयेति ॥ कालीयं कुङ्कुमम् । 'काश्मीरजन्म घुसृणं कालीयं कुङ्कुमं विदुः' इति शाश्वतः । कालीयकक्षोदैः कुङ्कुमचूर्णैः कृतानुलेपनश्रियं दिशां दिशद्ददत् । उल्लस दंशुमान् उद्यदादित्यस्तत्समा द्युतिर्यस्य तत् मुद्गभुजामश्वानां खुरैः खातं विदारितं काञ्चनभूमिजं रजो गिरेरधो गुरुत्वाद्गिरेरधस्तादेव विपप्रथे विस्तीर्णमभवत् ॥ १४ ॥

 मन्द्रैर्गजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् ।
 तारैर्बभूवे परभागलाभतः परिस्फुटैस्तेषु तुरंगहेषितैः ॥ १५ ॥

 मन्द्रैरिति ॥ मन्द्रैर्गम्भीरैः । 'मन्द्रस्तु गम्भीरे' इत्यमरः । रथमण्डलस्वनैः तादृशं तद्रूपमेव गजानां बृंहितं निजुह्नुवे तिरस्कृतम् । गजध्वनिरेकरूपत्वेन रथशब्दान्न पृथगश्रावीत्यर्थः । तारैरुच्चैस्तरैर्मन्द्रस्वरविलक्षणैस्तुरंगहेषितैः परभागलाभतस्तेषु तादृशध्वनिगुणभेदलाभात्तेषु गजादिस्वनेषु परिस्फुटैर्बभूवे । तुरंगहेषाः सुव्यक्ता एव शुश्रुविर इत्यर्थः । 'बृंहितं करिणां शब्दो हेषा हृषा च वाजिनाम् । बभूवे इति भावे लिट् । निजुह्नुव इति कर्मणि लिट् ॥ १५॥

 अन्वेतुकामोऽवमताङ्कुशग्रहस्तिरोगतं साङ्कुशमुद्वहञ्शिरः ।
 स्थूलोच्चयेनागमदन्तिकागतां गजोऽग्रयाताग्रकरः करेणुकाम्॥१६॥

 अन्वेत्विति ॥ अन्तिकागतां करेणुकां करिणीमन्वेतुकामोऽनुगन्तुकामः अङ्कुशं

पाठा०-१ 'कालेय०’.

२ ‘०स्वरैः'.