पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९२
शिशुपालवधे

'अरः शीघ्रे च चक्राङ्गे' इति विश्वः । तेषां श्रिया, अन्यत्र उदरस्य मध्यस्य श्रिया शोभया विराजमानां विगता धूरग्रं यस्याः सा विधुरा । 'धूः स्त्री क्लीबे यानमुखम्' इत्यमरः । 'ऋक्पू:-' (५।४।७४) इत्यादिना समासान्तः । सा न भवतीत्यविधुरा ताम् । सधुरामित्यर्थः । अन्यत्राविधुरामविकलां रथीं शकटीम् । 'बह्वादिभ्यश्च' (४।१।४५) इति विकल्पेन ङीष् । वधूमिव युयोज योजयामास । अत्र शब्दमात्रसाधर्म्यात्सभङ्गाभङ्गपदमिश्रणादुभयगोचरत्वाच्च प्रकृताप्रकृतगोचरागोचरः शब्दार्थश्लेषः ॥ ८॥

 उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके।
 अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥९॥

 उत्थातुमिति ॥ रौतीति रवण उष्ट्रः । 'रु शब्दे' इति धातोः 'चलनशब्दार्थादकर्मकाद्युच्' (३।२।१४८) इति युच्प्रत्ययः । भारारोपणाय यन्त्ररूपेण निर्मिते भरभाजि भारयुक्ते यन्त्रके गोण्यादौ निधीयमाने सति बलादुत्थातुमिच्छन्नुत्थाय गन्तुमिच्छन् अत एव पुरो मुखभागे विधृतो गृहीतः एवं स्वैरचारव्याघाततः अर्धोज्झितेनोद्गारेण स्वजग्धपिचुमर्दादिपत्ररसनेन विझर्झरो विषमः स्वरो यस्य स रवण उष्ट्रः स्वनाम स्फुटार्थतां निन्ये । रौतीति रवण इति व्युत्पन्नं स्वनाम यथार्थमकरोदित्यर्थः ॥ ९॥

 नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।
 गोणीं जनेन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥१०॥

 नस्येति ॥ नस्या । नासिकाया नसादेशः । नासिकाभवा नस्या । दिगादित्वाद्यत् । तस्यां नासिकाप्रोतरज्जौ गृहीतोऽपि विषाणयोर्युगं धुवन् विधुन्वन् शृङ्गद्वयं कम्पयन् । ससूत्कारेति । सूत्कार इति शब्दानुकरणम् । अमर्षजः सशब्दनिश्वासो वा ससूत्कारं यथा तथा विवर्तितं त्रिकं पृष्ठवंशाधरसन्धिर्येन । 'पृष्ठवंशाधरे त्रिकम्' इत्यमरः । उक्षतरो महोक्षः पृष्ठे निधातुं जनेनानुक्षणमुद्धृतां गोणीं न प्रतीच्छति स्म न स्वीकृतवान् । निधातुमवसरं न दत्तवानित्यर्थः ॥ १० ॥

 नानाविधाविष्कृतसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।
 गान्धर्वभूयिष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः॥११॥

 नानेति ॥ सामजा गजाः । 'सामजौ गजसामोत्थौ' इति शाश्वतः । नानाविधमाविष्कृताः सामजानां स्वरा ध्वनयो बृंहितानि यस्मिन् स सहस्रवर्त्मा बहुभिर्मार्गैर्गच्छन् । गन्धर्वा एव गान्धर्वा अश्वाः । 'वाजिवाहार्वगन्धर्व-' इत्यमरः । तैर्भूयिष्ठतया चपलैरस्थिरैः दुरध्ययो दुष्प्रापः । 'इण् गतौ' इत्यस्मात्कृच्छ्रार्थे खल् । ईदृशः स बलोदधिः सेनासमुद्रः सामवेदस्य समानतां दधौ । तत्समोऽभूदित्यर्थः । सामवेदोऽपि बहुधाविष्कृतबृहद्रथन्तरादिसामोत्थितस्वरः । सहस्रशाखत्वात्सहस्रवर्त्मा । गान्धर्वगानबहुत्वाच्चपलमतिभिरध्येतुमशक्य इत्यर्थः। 'इङ् अध्ययने' इत्यस्माद्धातोः खलि दुरध्यय इत्येवं रूपम् ॥ ११ ॥

पाठा०-१ 'उत्थाय गच्छन्'. २ 'विजर्जर'. ३ 'उत्थाय गच्छन्=गन्तुमिच्छन्'.

४ 'यथार्थमकरोदित्यभिप्रायः । 'रु शब्दे' इति धातोश्चलनार्थकादकर्मकायुजिति युच्प्रत्ययः'.