पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९१
द्वादशः सर्गः ।

अत्र कर्त्रभिप्राये 'णिचश्च' (१।३।७४) इत्यात्मनेपदे सिद्धेऽपि प्रयोगवैचित्र्यस्याप्यलंकारत्वादकार्त्रभिप्रायेऽपि ‘णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने' (१।३।६७) इत्यात्मनेपदं वदन्ति । अणि कर्मणः करेणोरेवात्र ण्यन्ते कर्तृत्वात्तस्यैव चार्थात्कर्मत्वादिति । ननु यत्सग्रहणमनन्यकर्मार्थमित्युक्तं तेन कर्ममात्रनिषेधात्कथं निषादिनि कर्मण्यात्मनेपदम् । सत्यम् । अन्येषां मतम् । भाष्यकारस्य तु 'दर्शयते भृत्यान् राजा' इत्युदाहरणादणि कर्तृकर्मण्यतिरिक्तकर्मण एव निषेधो विवक्षित इति कैयटः । तदेतत्सम्यग्विवेचितमस्माभिः किरातार्जुनीयटीकायां घण्टापथे 'स संततं दर्शयते गतस्मयः' (किरातार्जुनीये १।१०) इत्यत्र । स्वभावोक्तिः ॥५॥

 स्वैरं कृतास्फालनलालितान्पुरः स्फुरत्तनून्दर्शितलाघवक्रियाः ।
 वङ्कावलग्नैकसवल्गपाणयस्तुरंगमानारुरुहुस्तुरंगिणः ॥ ६॥

 स्वैरमिति ॥ तुरंगिणोऽश्वारोहाः पुरः पूर्वं स्वैरं मन्दं कृतं यदास्फालनं पाणितलेनाङ्गसंघट्टनं तेन लालिताननुपालितान् । त्याजितोद्वेगानित्यर्थः । अत एव स्फुरत्तनून् कम्पितदेहांस्तुरंगमानश्वान् दर्शितं लाघवं शैघ्र्यं यासु ताः क्रिया उत्पतनकर्माणि येषां ते । वङ्कः पल्याणकोटिः । 'वङ्कः पल्याणभागे स्यात्' इति विश्वः । तत्रावलग्नः सक्त एकैकः सवल्गो मुखरज्जुसहितः पाणिः येषां ते तथोक्ताः सन्त आरुरुहुरारूढाः । स्वभावोक्तिः ॥ ६॥

 अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।
 तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥७॥

अह्नायेति ॥ निषेदिवानुपर्युपविष्टः । निषादीति शेषः । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्वसुप्रत्ययः । भूयसे दवीयसे अध्वने । भूयांसमध्वानं गन्तुमित्यर्थः । 'क्रियार्थोपपदस्य-' (२।३।१४) इति चतुर्थी । अह्नाय झटिति । 'द्राक् झटित्यञ्जसाह्नाय' इत्यमरः । यावदासनबन्धं दूराध्वगमनौपयिकमासनविशेषं न चकार तावत्तीव्रं तीक्ष्णमुत्थिता असह्यरंहसो दुःसहवेगाः शृङ्खलकाः करभा उष्ट्रभेदाः । 'करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः' इत्यमरः । विशृङ्खलमनर्गलं प्रतस्थिरे प्रस्थिताः । 'समवप्रविभ्यः स्थः (१।३।२२) इत्यात्मनेपदम् । एषापि स्वभावोक्तिः ॥ ७॥

 गण्डोज्ज्वलामुज्ज्वलनाभिचक्रया विराजमानां नवयोदरश्रिया ।
 कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाविधुरां वधूमिव ॥८॥

 गण्डेति ॥ सुखमक्लिष्टं यथा तथा प्राप्तुं गन्तुं मनो यस्य स प्राप्तुमनाः, अन्यत्र सुखमानन्दं लब्धुकामः । 'तुं काममनसोरपि' इति मकारलोपः । शोभनः सारथिर्यस्य स सुसारथिः, अन्यत्र सुसहायवान् । कश्चित्कोऽपि रथी, कामी च । गण्डैश्चिह्नैरुज्ज्वलाम्, अन्यत्र कपोलोज्ज्वलाम् । 'गण्डः कपोले चिह्ने च' इति विश्वः । उज्ज्वलो नाभिर्बिलमध्यं ययोस्ते चक्रे रथाङ्गे यस्यास्तयोज्ज्वलनाभिचक्रया, अन्यत्रोज्ज्वलं नाभिचक्रं नाभिमण्डलं यस्यास्तया । 'नाभिः प्राण्यङ्गके क्षेत्रे चक्राङ्गचक्रवर्तिनोः' इति विश्वः । नवया प्रत्यग्रया उदुन्नता अराश्चक्रशलाकाः ।

पाठा०-१ 'तीक्ष्णो०’. २ 'तीक्ष्णं=तीव्रं'.