पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९०
शिशुपालवधे

हस्तस्थितैरखण्डितैश्चक्रैश्चक्ररेखाभिः शालन्त इति तथोक्ताः, अन्यत्र चक्रं सुदर्शनं तच्छालिनम् । द्विजेन्द्रकान्ता ब्राह्मणोत्तमप्रियाः, अन्यत्र द्विजेन्द्रश्चन्द्रः 'तस्मात् सोमराजानो ब्राह्मणाः' इति श्रुतेः । अत एव 'द्विजराजः शशधरः' इत्यमरः । तद्वत्कान्तं सुन्दरं श्रिया शोभया श्रितवक्षसो व्याप्तोरस्काः, अन्यत्र रमयाधिष्ठितोरस्कम् । सत्ये सत्यवचनेऽनुरक्ताः, अन्यत्र सत्यायां सत्यभामायामनुरक्तम् । नरकस्य जिष्णवः, अन्यत्र नरकासुरस्य जेतारम् । 'ग्लाजिस्थश्च’ (३।२।१३९) इति ग्स्नुः । 'नरको निरये दैत्ये' इति विश्वः । एवंभूता नृपा एवंभूतं शार्ङ्गिणं गुणैर्विनयादिभिर्हेतुना अन्वयासिषुरनुजग्मुः, गुणैः पूर्वोक्तैरन्वकार्षुश्च । यार्तेलुङि च्लेः सिच् । 'यमरम-’(७।२।७३) इति सगागमः सिच इडागमश्च । 'सिजभ्यस्त-' (३।४।१०९) इति झेर्जुस् । अत्र शार्ङ्गिणो नृपाणां च प्रकृतत्वाच्छब्दमात्रसाधर्म्याच्च केवलः प्रकृतिविषयः शब्दश्लेषः ॥ ३॥

 शुक्लैः सतारैर्मुकुलीकृतैः स्थुलैः कुमुद्वतीनां कुमुदाकरैरिव ।
 व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥ ४ ॥

 शुक्लैरिति ॥ शुक्लैः शुभैः सतारैः सरज्जूकैः सकर्णिकैश्च मुकुलीकृतैर्वहनसौकर्याय संकोचितैः, अन्यत्र रात्रिविकासित्वान्मुकुलतां नीतैः प्राप्तैः स्थुलैर्दीर्घैः पटमण्डपैरिति यावत् । कुमुदाकरैः कुमुदहृदैरिवोपलक्षितम् । अन्यत्र स्थुलैरिव कुमुदाकरैरुपलक्षितं वियोगवेदनया विरहव्यथया विदूनाः परितप्ताः । 'ल्वादिभ्यः' (८।२।४४) इति निष्ठानत्वम् । ता नार्यो यस्मिंस्तत्तथोक्तम् । द्वयोरपि वियोगकालत्वादिति भावः । 'नद्यृतश्च' (५।४।१५३) इति कप् । कुमुदान्यासु सन्तीति कुमुद्वत्यः कुमुदप्राया भूमयः । 'कुमुद्वान्कुमुदप्राये' इत्यमरः । कैरविण्यो वा। 'कुमुद्वती कैरविण्याम्' इति विश्वः । 'कुमुदनडवेतसेभ्यो ड्मतुप्' (४।२।८७) इति मतुप्प्रत्ययः । 'मादुपधायाः-' (८।२।९) इति मकारस्य वत्वम् । तासां कुमुद्वतीनां संबन्धे व्युष्टं प्रभातम् । 'व्युष्टं प्रभातं प्रत्यूषम्' इत्यभिधानचिन्तामणिः । तत्र किंचित्करत्वात्तत्संबन्धित्वं प्रयाणं च सेनानामिति शेषः । तदा तस्मिन्काले सममुक्तरीत्या अन्योन्यसदृशमभूत् । व्युष्टप्रयाणयोर्द्वित्वेऽपि समुदायविवक्षायामभूदित्येकवचनम् । व्युष्टं प्रयाणं च द्वयमपि सममभूदित्यर्थः । अत्र वर्ण्यत्वेन प्रकृतस्य प्रयाणस्य प्रकृतव्युष्टसाम्योक्तेरुपमा श्लेषसंकीर्णा ॥ ४ ॥

 उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।
 आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ ५॥

 उत्क्षिप्तेति ॥ उत्क्षिप्तगात्र उन्नमितपूर्वकायः अत एव नभः खं प्रति समुत्पतिष्यन्तमुत्पतनोद्युक्तमगेन्द्रं महाद्रिं विडम्बयन्ननुकुर्वन्नित्युत्प्रेक्षा । अभूतोपमेति केचित् । उच्चकैरुन्नतः करेणुरिभः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । आकुञ्चितो

नमितः प्रोहो गजाङ्घ्रिः । 'गजाङ्घ्रिः प्रोहः' इति विश्वः । तत्र निरूपितक्रमं कृतपादन्यासं निषादिनं यन्तारं आरोहयते स्म । स्वयमेव स्वात्मन्यारोपयतीत्यर्थः । रोहेर्गत्यर्थत्वात् 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणि कर्तुर्निषादिनः कर्मत्वम् ।