अविरतदयिताङ्गासङ्गसंचारितेन
छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।
कनकनिकषरेखाकोमलं कामिनीनां
भवति वपुरवाप्तच्छायमेवातपेऽपि ॥ ५५ ॥
अविरतेति ॥ अविरतेनाविच्छिन्नेन दयितानां प्रेयसामङ्गस्यासङ्गेन शरीरसंपर्केण संचारितेन संक्रामितेनाभिनवस्यासृजो रक्तस्येव कान्तिर्यस्य तेन कुङ्कुमेन छुरितं कनकस्य या निकषे निकषोपले रेखा राजिस्तद्वत्कोमलं मनोहरमित्युपमा । कामिनीनां वपुरातपेऽप्यवाप्तच्छायं लब्धवर्णोत्कर्षमेव भवति । स्वतः सुवर्णस्य ततः कुङ्कुमाङ्कितस्य कामिनीगात्रस्य पुनर्बालातपव्याप्तिरिति महती वर्णोत्कर्षसामग्रीति भावः । आतपे छायानातप इति विरोधाभासेऽपिशब्दः । 'छाया त्वनातपे कान्तौ' इत्यमरः । अत्र संक्रान्तकुङ्कुमच्छुरितत्वकनकनिकषरेखाकोमलत्वयोरुपमापेक्षया छायावाप्तिहेतुत्वादुपमासंकीर्णं काव्यलिङ्गं तदातपेऽप्यवाप्तच्छायमित्यत्र विरोधेनैकवाचकानुप्रवेशेन संकीर्यते ॥ ५५ ॥
सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः
करनयनसहस्रं हेतुमालोकशक्तेः।
अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं
हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥५६॥
सरसीति ॥ सरसि जातानि सरसिजानि । 'सप्तम्यां जनेर्डः' (३।२।९७)। तत्पुरुषे कृति बहुलम्' (६।३।१४) इत्यलुक् । तद्वनस्य कान्तं प्रियम्, अन्यत्र तद्वत्कान्तं रम्यं आलोकशक्तेर्लोकलोचनानां विषयग्रहणशक्तेर्हेतुं आलोकान्तरसहकृतानामेव तेषां तत्सामर्थ्यात्, अन्यत्र आलोकशक्तेर्दर्शनव्यापारस्य हेतुम् । दर्शनसाधनमित्यर्थः । करा नयनानीव, अन्यत्र करा इव नयनानि तेषां सहस्रं करनयनसहस्रं बिभ्रत् । अभ्रान्ते नभोमध्ये वृत्तिर्यस्य सोऽभ्रान्तवृत्तिः । अन्यत्राभ्रान्ते मेघे वृत्तिर्यस्य सः । मेघवाहन इत्यर्थः । 'अभ्रं नभः स्वर्गबलाहकेषु' इति विश्वः । हरितोऽश्वो यस्य स हरिदश्वोऽर्कः हरिरिन्द्र इवातिमहिम्नातिमहत्तया । स्ववृद्ध्येत्यर्थः । लोकमाक्रान्तवन्तं व्याप्तवन्तं एकत्र प्रत्यक्षादन्यत्र 'स इषुमात्रमिषुमात्रं विष्वग्वर्धते । स इमाँल्लोकानावृणोत्' इत्यागमादिति भावः । वृत्रं ध्वान्तं दानवं च त्वाष्ट्रं साधु हिनस्ति हन्ति । 'ध्वान्तारिदानवा वृत्राः' इत्यमरः उपमा श्लेषो वा मतभेदात् ॥ ५६ ॥
अवतमसभिदायै भास्वताभ्युद्गतेन
प्रसभमुडुगणोऽसौ दर्शनीयोऽप्यपास्तः ।
निरसितुमरिमिच्छोर्ये तदीयाश्रयेण
श्रियमधिगतवन्तस्तेऽपि हन्तव्यपक्षे ॥ ५७ ॥