पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८३
एकादशः सर्गः ।

मधुन आपूर्णमिव । सामान्यषष्ठ्या योग्यविशेषपर्यवसाननियमात् 'षष्ठी शेषे' (२।३।५०) इति संबन्धसामान्ये षष्ठी करणस्यापि कारणत्वादिति । भाति शोभते । अत्रातपाक्रान्ते मधुपूर्णत्वोपेक्षया आतपे मधुभ्रमाद्भ्रान्तिमान् व्यज्यते ॥ ५१ ॥

  सितरुचि शयनीये नक्तमेकान्तमुक्तं
   दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।
  निजमिति रतिबन्धोर्जानतीमुत्तरीयं
   परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ५२ ॥

 सितेति ॥ नक्तं रात्रौ शयनीये तल्पे । एकान्तमुक्तमत्यन्तत्यक्तं सितरुचि शुभ्रवर्णम् । किंतु दिनादौ प्रभाते दिनकरकरसङ्गेनार्कांशुव्यतिकरेण व्यक्ता कौसुम्भी कुसुम्भस्य रागद्रव्यस्य संबन्धिनी कान्तिर्यस्य तत्तथा भासमानं रतिबन्धोः प्रियस्योत्तरीयं निजमात्मीयमिति जानतीम् । अत एवाददानां स्त्रीनायिकाम् । 'वाम्शसोः' (६।४।८०) इतीयङभावपक्षे 'अमि पूर्वः' (६।१।१०७) इति पूर्वरूपम् । सखी परिहसति । अत्राकौसुम्भे कौसुम्भभ्रमात् सादृश्यनिबन्धनाद्भ्रान्तिमदलंकारः ॥ ५२ ॥

  प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु
   स्फटिकमयमराजद्राजताद्रिस्थलाभम् ।
  अरुणितमकठोर्वेश्म काश्मीरजाम्भ:-
   स्नपितमिव तदेतद्भानुभिर्भाति भानोः॥ ५३॥

 प्लुतमिति ॥ राजताद्रिस्थलाभं सुधाधवलितत्वात्कैलासतटसंनिभं यद्वेश्म निशासु शिशिरांशोरिन्दोरंशुभिश्चन्द्रिकाभिः प्लुतं धौतं सत् स्फटिकमयं स्फटिकविकार इवाराजद्रेजे । तदेतद्वेश्म भानोः सूर्यस्य अकठोरैः कोमलैर्भानुभिः अरुणितमरुणिकृतं सत् काश्मीरदेशे जातं काश्मीरजं कुङ्कुमं तस्याम्भसा स्नपितं सिक्तमिव भाति । उत्प्रेक्षयोः संसृष्टिः ॥ ५३॥

  सरसनखपदान्तर्दष्टकेशप्रमोकं
   प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।
  विदधति दशनानां सीत्कृताविष्कृताना-
   मभिनवरविभासः पद्मरागानुकारम् ॥ ५४॥

 सरसेति ॥ प्रणयिनि योषितां सरसनखपदानामार्द्रनखक्षतानामन्तर्मध्ये दृष्टानां लग्नानां केशानां शिरोरुहाणां प्रमोकं प्रमोचनं विदधाने सति सीत्कृतैर्व्यथाविर्भूतसीत्कारैराविष्कृतानां दशनानामुल्लसन्त्यो वैमल्याद्दन्तेषु प्रतिफलन्त्यः

अभिनवरविभासः पद्मरागाणामनुकारमनुकरणं विदधति । उपमालंकारः । रविभासामारुण्यप्रतिपादकाभिनवविशेषणप्रसादलब्ध इति काव्यलिङ्गेन संकरः ॥५४॥