तटमिव पीठं तस्मादुत्थितः । उदयाद्रिमतिक्रान्त इत्यर्थः । यथा कस्मिन्महाराजः सिंहासनोपविष्टः क्षणं प्रणतजनमादृत्य अथ सकलस्वराष्ट्रप्रत्यवेक्षणाय सहसोत्थाय गच्छति तद्वदित्यर्थः । अत्र प्रकृतार्कविशेषणवैभवादप्रकृतमहाराजप्रतीतेः समासोक्तिः ॥४८॥
परिणतमदिराभं भास्करणांशुबाणै-
स्तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः।
रुधिरमिव वहन्त्यो भान्ति बालातपेन
छुरितमुभयरोधोवारितं वारि नद्यः ॥ ४९ ॥
परिणतेति ॥ नद्यः बालातपेन छुरितं रूषितम् अत एव परिणतमदिराभं सुपक्वसुरासंनिभमुभाभ्यां रोधोभ्यां वारितमवरुद्धमुभयरोधोवारितम् । 'उभादुदात्तो नित्यम्' (५।२।४४) इत्यत्र नित्यग्रहणसामर्थ्याद्वृत्तिविषये उभशब्दस्य स्थाने उभयशब्दप्रयोग इत्युक्तं प्राक् । वारि जलं भास्करेण । कस्कादित्वात्सत्वम् । अंशुभिरेव बाणैः । सर्वदिक्षु क्षतायाः प्रहृतायास्तिमिरमेव करिघटा गजसङ्घस्तस्या रुधिरमिवेत्युत्प्रेक्षा । वहन्त्यो भान्ति ॥ ४९ ॥
दधति परिपतन्त्यो जालवातायनेभ्य-
स्तरुणतपनभासो मन्दिराभ्यन्तरेषु ।
प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं
कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ५० ॥
दधतीति ॥ जालवातायनेभ्यो गवाक्षविवरेभ्यः मन्दिराणामभ्यन्तरेषु परिपतन्त्यः तरुणतपनभासो बालार्ककिरणा वनितानां प्रणयिषु प्रातर्गन्तुमिच्छत्सु कुपितेन मदनेन मुक्तानामुत्तप्तानामग्निज्वलिततेजसां नाराचानां बाणविशेषाणां लीलां शोभां दधति । अत्र लीलेव लीलेति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धान्निदर्शना ॥ ५०॥
अधिरजनि वधूभिः पीतमैरेयरिक्तं
कनकचषकमेतद्रोचनालोहितेन ।
उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्त-
र्मधुन इव तथैवापूर्णमद्यापि भाति ॥५१॥
अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । वधूभिः पीतं मैरेयं मद्यं यस्य तत् अत एव रिक्तं पीतमैरेयरिक्तं एतत्कनकचषकं स्वर्णस्य पानपात्रम् । अवयवषष्ठ्या विकारार्थता । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । रोचनालोहितेन गोरोचनारुणेन उदयत उदीयमानस्य अहिमरोचिषोऽर्कस्य ज्योतिषा
तेजसा अन्तरभ्यन्तर आक्रान्तं व्याप्तं सत् अद्यापि इदानीमपि तथैव पूर्ववदेव