पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८१
एकादशः सर्गः ।

  अतुहिनरुचिनासौ केवलं नोदयाद्रिः
   क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
  नवकरनिकरेण स्पष्टबन्धूकसून-
   स्तवकरचितमेते शेखरं बिभ्रतीव ॥४६॥

 अतुहिनेति ॥ क्षणमुपरिगतेन स्थितेनातुहिनरुचिनार्केण केवलमसावुदयादिः पूर्वाद्रिर्न । 'उदयः पूर्वपर्वतः' इत्यमरः । किंत्वेते सर्व एव क्ष्माभृतः सर्वेऽपि शैलाः क्षणमुपरिगतेनावस्थितेन नवकरनिकरेण स्पष्टैर्विकसितैः बन्धूकसूनस्तबकैर्बन्धुजीवककुसुमगुच्छैः विरचितम् । 'बन्धूको बन्धुजीवकः' इत्यमरः । शेखरं शिखामाल्यम् । 'शिखास्वापीडशेखरौ' इत्यमरः । बिभ्रतीवेत्युत्प्रेक्षा । न केवलमर्केणोदयाद्रिरेव बन्धूकशेखरं बिभर्ति, किंतु तत्करजालेन सर्वेऽपि पर्वतास्तथेत्यर्थः ॥ ४६॥

  उदयशिखरिशृङ्गप्राङ्गणेष्वेष रिङ्गन्
   सकमलमुखहासं वीक्षितः पद्मिनीभिः।
  विततमृदुकराग्रः शब्दयन्त्या वयोभिः
   परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥४७॥

 उदयेति ॥ एष बाल उदितमात्रः बालश्चासौ सूर्यश्व बालसूर्यः उदयशिखरिशृङ्गस्योदयादिशिखरस्य प्राङ्गणेषु रिङ्गन् संचरन् पद्मिनीभिर्नलिनीभिः स्त्रीविशेषैश्च । 'पद्मिनी स्त्रीविशेषेऽपि' इति विश्वः । कमलान्येव मुखानि तेषां हासेन विकासेन, हास्येन च, सह यस्मिन्कर्मणि तद्यथा तथा वीक्षितः सन् । वयोभिः पक्षिभिः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । शब्दयन्त्याः शब्दं कुर्वत्याः । 'आगच्छागच्छ वत्स' इति व्याहरन्त्या इत्यर्थः । शब्दशब्दात् 'तत्करोति-' (ग०) इति ण्यन्ताल्लटः शतरि ङीप् । दिवोऽन्तरिक्षस्य मातुश्चाङ्के समीपे, उत्सङ्गे च विततानि प्रसृतानि मृदूनि कराग्राणि किरणाग्राणि हस्ताग्रे च यस्य सन् हेलया लीलया परिपतति । श्लेषमूलातिशयोक्त्यनुगृहीतरूपकम् ॥ ४७ ॥

  क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः
   प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।
  भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः
   क्षितिधरतटपीठादुत्थितः सप्तसप्तिः ॥४८॥

 क्षणमिति ॥ अयं सप्तसप्तिरर्कः क्षणमुपविष्टः क्षितिधरपीठमध्यासीनः क्ष्मातलन्यस्तपादः । प्रणामस्वीकाराय भूतलप्रसारिताङ्घ्रिरित्यर्थः । प्रणतिपरं नमस्कारं कुर्वाणं प्रीतं प्रणामस्वीकारात् संतुष्टं लोकं जनमह्नाय झटित्यवेक्ष्य । 'झटित्यञ्जसाह्नाय' इत्यमरः । रूपावलोकेन संभाव्याशेषं भुवनतलं लोकस्वरूपं प्रत्यवेक्षिष्यमाणोऽनुसंधास्यमानः क्षितिधरस्य तटं पीठमिव सिंहासनमिव । अन्यत्र