पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८५
एकादशः सर्गः ।

अवतमसेति ॥ अवतमसं तिमिरम् । 'अवसमन्धेभ्यस्तमसः' (५।४।७९) इति समासान्तः । यद्यपि क्षीणेऽवतमसं तमः' इत्युक्तं, तथापीह विरोधाद्विशेषानादरेण सामान्यमेव ग्राह्यम् । तस्य भिदायै भेदाय । “षिद्भिदादिभ्योऽङ् (३।३।१०४) अभ्युद्गतेनाभ्युदितेनोद्यतेन च भास्वता सूर्येण दर्शनीयोऽप्युडुगणोऽसौ प्रसभं बलादपास्तः । तथा हि-अरिं निरसितुमिच्छोर्ये तदीयेनाश्रयेणाश्रयणेन श्रियं संपदं शोभां च । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते' इति विश्वः । अधिगतवन्तः प्राप्तवन्तस्तेऽपि हन्तव्यपक्षे वध्यकोटावेव । अरिवदरिपक्षा अपि वध्या एवेत्यर्थः । उडुगणोऽपि तमसि शोभते अतस्तत्पक्ष इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ५७ ॥

  प्रतिफलति करौघे संमुखावस्थितायां
   रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।
  बहिरभिहतमद्रेः संहतं कंदरान्त-
   र्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥ ५८॥

 प्रतीति ॥ घर्मभानुरुष्णांशुः संमुखावस्थितायां सान्द्रचन्द्रांशुवद्गौर्यां धवलायामित्युपमा । 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । रजतकटकमेव भित्तिः तस्यां करौघे स्वकिरणजाले प्रतिफलति सति अद्रेर्बहिरभिहतं कंदराणां दरीणामन्तर्गतं संहतं तिमिरोधमपि भिनत्ति । पुरोगतरजतभित्तिप्रतिहतस्य निजतेजसः कंदरान्तःप्रवेशादिति भावः । अत्र करौघस्यान्तःसंबन्धाभावेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ५८॥

  बहिरपि विलसन्त्यः काममानिन्यिरे य-
   द्दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु ।
  नियतविषयवृत्तेरप्यनल्पप्रताप-
   क्षतसकलविपक्षस्तेजसः स स्वभावः ॥ ५९॥

 बहिरिति ॥ बहिर्विलसन्त्योऽपि दिवसकररुचोऽर्कभासः अन्तर्गृहेषु गर्भागारेषु काम यथेष्टं ध्वान्तमन्तं नाशमानिन्यिरे प्रापयामासुरिति यत् । नयतेर्द्विकर्मकात्कर्तरि लिट् । सोऽन्तर्गृहध्वान्तनिरासो नियतविषये नियतस्थाने वृत्तिर्यस्य तस्य । नियतदेशवर्तिनोऽपीत्यर्थः । 'तृतीयादिषु' (७।१।७४) इति पुंवद्भावः। तेजसोऽनल्पेन प्रतापेन स्वप्रकाशेन । स्वप्रभावेनैवेत्यर्थः । 'प्रतापौ पौरुषातपौ' इति वैजयन्ती । क्षतसकलविपक्षो निरस्तसमस्तप्रतिपक्षः । स्वभावः तेजस्विनामेष स्वभावो यत्प्रतापेनैव परोच्छेदनमतो युक्तमर्कभासामप्यन्तर्ध्वान्तहरणमित्यर्थः । अत्र समर्थ्यसमर्थकयोः सामान्यविशेषभावादर्थान्तरन्यासः ॥ ५९॥

  चिरमतिरसलौल्याद्बन्धनं लम्भितानां
   पुनरयमुदयाय प्राप्य धाम स्वमेव ।