पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७७
एकादशः सर्गः ।

  मदमदनविकासस्पष्टधार्ष्ट्योदयानां
   रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।
  विधदति न गृहेषूत्फुल्लपुष्पोपहारं
   विफलविनययत्नाः कामिनीनां वयस्याः ॥ ३६॥

 मदेति ॥ मदमदनयोर्विकासेन विजृम्भणेन स्पष्टो धार्ष्ट्यस्योदय आविर्भावो यासां तासां कामिनीनां रतिरेव कलहः तस्मिन्विकीर्णैरितस्ततो विक्षिप्तैर्भूषणैरर्चितेषु गृहेषु वयस्याः स्निग्धपरिचारिकाः विनीयन्तेऽस्मिन्निति विनयोऽधिकारः तत्र यत्नो विफलो यासां ता विफलविनययत्नाः निष्फलस्वाधिकारोद्योगाः सत्यः उत्फुल्लैः पुष्पैरुपहारं पूजां न विदधति न कुर्वन्ति । अत्र समृद्धवस्तुवर्णनादुदात्तालंकारः । तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते' इति लक्षणात् । तेन तासां तेष्वाभरणेषु भुक्तवस्त्रमाल्यादिवन्निर्माल्यबुद्धिर्ध्वन्यते ॥ ३६ ॥

  करजदशनचिह्नं नैशमङ्गेऽन्यनारी-
   जनितमिति सरोषामीर्ष्यया शङ्कमानाम् ।
  स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव
   स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥३७॥

 करजेति ॥ विलसनशीलो विलासी । 'वौ कषलस-' (३।२।१४३) इत्यादिना घिनुण्प्रत्ययः । अङ्गे निजाङ्गे निशायां भवं नैशम् । 'निशाप्रदोषाभ्यां च' (४।३।१४) इत्यण्प्रत्ययः । करजदशनचिह्नं नखदन्तक्षतमन्यनारीजनितं सपत्नीकृतमिति शङ्कमानां विश्वसतीमत एवेर्ष्यया अक्षमया सरोषां स्त्रियं निजवधूं मत्तया मदमूढया त्वयैवैतद्दत्तमेवं कृतं खलु न सरसि नाभिजानासि किमिति काकुः । इत्थमनेन प्रकारेण व्रीडमानां स्वकृतत्वप्रत्यभिज्ञानाल्लज्जितां सतीमनुनयत्यङ्गीकारयति । स्वमौग्ध्यव्याघातो निर्वेदश्च लज्जया व्यज्यते ॥ ३७ ॥

  कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ
   परिशिथिलितगात्रे गन्तुमापृच्छमाने ।
  विगलितनवमुक्तास्थूलबाष्पाम्बुबिन्दु-
   स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ३८ ॥

 कृतेति ॥ कृतो गुरुतरस्य हारस्य छेदो यस्मिंस्तत्तथा आलिङ्ग्य परिशिथिलितगात्रे शिथिलीकृताङ्गे पत्यौ भर्तरि गन्तुमापृच्छमाने आमन्त्रयमाणे सति । 'आङि नुप्रच्छ्योः' (वा०) इत्युपसंख्यानादात्मनेपदम् । कर्तरि लटः शानजादेशः । तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । अबलायाः स्तनयुगं कर्तृ । विगलिता निःसृता नवमुक्ता नूतनमौक्तिकान्येव स्थूलबाष्पाम्बुबिन्दवो यस्मिन्कर्मणि

पाठा०-१ . ‘०नामविश्वसन्तीं'. २ 'इत्थं'.


शिशु० २४