पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७५
एकादशः सर्गः ।

  इदमतिमहदेवाश्चर्यमाश्चर्यधाम्न-
   स्तव खलु मुखरागो यन्न भेदं प्रयातः ॥३१॥

 सकलमित्यादि ॥ कामेन लोलाया अन्यनार्याः सपत्न्या रतिरभसेषु सुरतसंभ्रमेषु विमर्दैः पीडनैः। रज्यतेऽनेनेति रागः अङ्गस्य रागोऽङ्गरागः विलेपनं, अङ्गविकासश्च तस्मिन्नङ्गरागे सकलमपि निःशेषं यथा तथा निकामं भिन्नवति विश्लिष्टवति सति आश्चर्यधाम्नः सर्वाद्भुतनिधानस्य तव मुखरागो मुखविकासो भेदं विश्लेषं न प्रयात इति यत् । इदमेवातिमहदाश्चर्यं खलु । मुखस्याप्यङ्गत्वेन तद्रागस्याप्यङ्गरागत्वादिति भावः । अत्र विलेपनविकासाख्ययोरङ्गरागयोरेवानाध्यवसायेन विरोधः । भेदाननुसंधानत्वेनाविरोध इति श्लेषमूलातिशयोक्त्युत्थापितो विरोधाभासोऽलंकारः ॥ ३१ ॥

  प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः
   स्फुटमिति सविशङ्कं कान्तया तुल्यवर्णः।
  चरणतलसरोजाक्रान्तिसंक्रान्तयासौ
   वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥ ३२ ॥

 प्रकटेति ॥ किंच प्रकटतरमतिस्फुटमिममेनं नखविलेखम् । अन्या रमण्यो निजसपत्न्यः स्फुटं मा द्राक्षुः न पश्यन्तु । दृशेर्लुङ् 'न दृशः' (३।१।४७) इति क्साभावपक्षे सिचि वृद्धिः । इति बुद्ध्या कान्तया सविशङ्कं यथा तथा तुल्यवर्णो लाक्षासमानवर्णः । विवर्णस्य दुरपह्नवत्वादिति भावः । असौ ते तव वपुषि नखविलेखो नखव्रणश्चरणतलं सरोजमिवेत्युपमितसमासः । आक्रान्तिलिङ्गात्तस्याक्रान्त्या आघातेन संक्रान्तया लाक्षया रक्षितो गुप्तः । आच्छादित इत्यर्थः । हन्त सा तु पापीयसी लाक्षा स्वयमेव सर्वदुर्वृत्तपिशुनेति भावः । अत्र नखविलेखस्य लाक्षासावर्ण्यात्तदेकतापत्तेः सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ ३२ ॥

  तदवितथमवादीर्यन्मम त्वं प्रियेति
   प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।
  मदधिवसतिमागाः कामिनां मण्डनश्री-
   र्व्रजति हि सफलत्वं वल्लभालोकनेन ॥ ३३ ॥

 तदिति ॥ किंच मम त्वमेव प्रियेति यदवादीरवोचः । वदेर्लुङि 'वदव्रज-' (७।२।३) इत्यादिना वृद्धिः । तदवितथं सत्यम् । कुतः । यद्यस्मात् प्रियजनेन परिभुक्तं दुकूलम् । तदीयमित्यर्थः । दधानः धारयन्नित्यर्थः । 'दधान' इत्यत्र 'वसानः' इति पाठे वसान आच्छादयन् । वस आच्छादनार्थाल्लटः शानजादेशः । स त्वं

मदधिवसतिं मम निवासमागाः प्राप्तः । 'इणो गा लुङि' (२।४।४५) । युक्तं