पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७४
शिशुपालवधे

मप्राप्तोऽयं वायुर्वधूनां कुसुमानां च विमर्देन संघर्षेणोद्गन्धिषूद्गतगन्धेषु । गन्धस्येत्वम् । वेश्मान्तरेषु गृहान्तरेषु स्थास्नुतां स्थायित्वमेति । पूर्वोक्तसर्वोत्कृष्टसौरभलोभादिति भावः । 'ग्लाजिस्थश्च-' (३।२।१३९) इति ग्स्नुप्रत्ययः । वधुशब्दो ह्रस्वोकारान्तोऽप्यस्ति । यद्वा 'मधुकुसुम' इति पाठः । मधुयुक्तानि कुसुमानि तेषां विमर्देनेत्यर्थः । अत्र वायोरस्थायित्वेऽपि स्थायित्वसंबन्धोक्तेरतिशयोक्तिः । तथा विमर्दगन्धस्य कमलादिगन्धादाधिक्यरूपव्यतिरेकप्रतीतेरलंकारेणालंकारध्वनिः ॥ २८॥

  नखपदवलिनाभीसंधिभागेषु लक्ष्यः
   क्षतिषु च दशनानामङ्गनायाः सशेषः ।
  अपि रहसि कृतानां वाग्विहीनोऽपि जातः
   सुरतविलसितानां वर्णको वर्णकोऽसौ ॥ २९॥

 नखपदेति ॥ नखपदेषु नखक्षतेषु वलिषु त्रिवलिषु नाभ्यां संधिभागेषु कूर्परादिदेहसंधिस्थानेषु तथा दशनानां क्षतिषु दन्तव्रणेषु च सशेषः सावशेषः किंचिद्वेद्यमानः अत एव लक्ष्यो दृश्योऽङ्गनायाः संबन्धी असौ वर्णयति वर्णं करोति रञ्जयतीति वर्णकोऽङ्गरागो वाग्विहीनो वागिन्द्रियरहितोऽपि सन् रहसि कृतानामपि सुरतविलसितानां सुरतचेष्टितानां वर्णयति वक्तीति वर्णको वक्ता । व्यञ्जक इत्यर्थः । वर्णयतेर्ण्वुल्प्रत्ययः । 'वर्णक्रियायां विस्तारे गुणोक्तौ वर्णनेऽप्यदः' इति भट्टमल्लः । जातः नखक्षतादिष्वेव लक्ष्यमाणोऽङ्गरागोऽन्यत्र स्वविलोपाच्चेष्टाविशेषानुमापको जात इत्यर्थः । अत्र वाग्विहीनोऽपि रहस्यकृतानामपि वर्णको वक्तेति विरोधस्य व्यञ्जकत्वलक्षणया परिहाराद्विरोधाभासोऽलंकारः ॥२९॥

  प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकै-
   रधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः।
  उपहसित इवासौ चन्द्रमाः कामिनीनां
   परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥३०॥

 प्रकटेति ॥ उषसि प्रत्युषः। विभक्त्यर्थेऽव्ययीभावः । यद्वा प्रत्युषः प्रभातम् । 'उषः प्रत्युषसी अपि' इत्यमरः । तत्र प्रोषितश्रीर्भ्रष्टशोभः अत एव प्रकटमलिनलक्ष्मा स्पष्टदृष्टकलङ्कोऽसौ चन्द्रमाः मृष्टाः प्रमृष्टाः पत्रावल्यः पत्रभङ्गाः येषां तैः । 'नद्यृतश्च' (५।४।१५३) इति कप् । तथाप्यधिगता रतिशोभा संभोगश्रीर्येषां तैः । परिणताः परिपक्वाः शरकाण्डा बाणाख्यतृणकाण्डिकाः । 'शरो बाणे बालतृणे' इति शब्दार्णवे । तद्वदापाण्डुभिः कामिनीनां गण्डभागैर्गण्डस्थलैरुपहसित इवेत्युत्प्रेक्षा। पाण्डिमगुणनिमित्ता निष्कलङ्काः सकलङ्कं समानमानिनमुपहसन्तीति भावः ॥ ३० ॥

 अथ काचित्खण्डिता नायिका सागसं प्रेयांसं प्रातरागतं पञ्चभिरुपालभते-

  सकलमपि निकामं कामलोलान्यनारी-
   रतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।