सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७३
एकादशः सर्गः ।

  रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना
   सरिदपरतटान्तादागता चक्रवाकी ॥ २६ ॥

 विगतेति ॥ विरहेण खिन्नः रथचरणेन चक्रेण समाह्वस्तुल्याख्यः, तस्यैव समाह्वा समाख्या यस्येति वा रथचरणसमाह्वः । चक्रवाक इत्यर्थः । 'कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः' इत्यमरः । तिमिरं पङ्कमिवेत्युपमितसमासः । तद्विगतं यस्मात्तद्व्योम यावत्पश्यति, यावदेव पक्षती पक्षमूले । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । 'पक्षात्तिः' (५।२।२५) इति तिप्रत्ययः । धुवति उत्पतितुं धुनोति । 'धू विधूनने' इति धातोस्तौदादिकत्वादुवङादेशः । तावदेवोत्पतनात्प्रागेव चक्रवाकी चक्रवाकस्य स्त्री । 'जातेरस्त्रीविषयादयोपधात्' (४।५।६३) इति ङीष् । औत्सुक्येनोत्कण्ठया नुन्ना प्रेरिता सती सरितोऽपरतटान्तात्परभूमेः सकाशादागता । एतेनानयोरुन्मनस्कता समश्चानुराग इत्युक्तम् । अत्र रागौत्सुक्ययो रसभावयोस्तिर्यग्गतत्वेनाभासयोर्निबन्धनादूर्जस्वी नामालंकारः । 'रसभावतदाभासप्रशमानां निबन्धने । रसवत्प्रेय ऊर्जस्विसमाहितानि' इति लक्षणात् ॥ २६ ॥

  मुदितयुवमनस्कास्तुल्यमेव प्रदोषे
   रुचमदधुरुभय्यः कल्पिता भूषिताश्च ।
  परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते
   युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥ २७ ॥

 मुदितेति ॥ प्रदोषे रात्रौ मुदितानि यूनां मनांसि याभिस्ताः मुदितयुवमनस्काः । 'उरःप्रभृतिभ्यः कप्' (५।४।१५१)। कल्पिता उपभोगाय संपादिता भूषिता वलयवसनादिभिरुपस्कृताश्च उभय्य उभयविधा युवतयः पुष्पमालाश्च । 'उभादुदात्तो नित्यम्' (५।२।४४) इति उभस्यायजादेशः 'टिड्ढाणञ्-' (४।१। १५) इत्यादिना ङीप् । तुल्यमेवाविशेषं यथा तथा रुचं शोभामदधुर्धृतवत्यः । धाञो लिट् । प्रभाते तूपभोगान्नीरुचो निष्प्रभाः पुष्पमालाः परिमलेन विमर्दगन्धेन रुचिराभिरुपभोगादधिसुरभिभिर्युवतिभिर्न्यक्कृतास्त्यक्ता अवधीरिताश्च । अत्र पुष्पमालाभ्यो युवतीनां साम्योक्तिपूर्वकविमर्दसहत्वेनाधिक्योक्तेर्व्यतिरेकः ॥ २७ ॥

  विलुलितकमलौघः कीर्णवल्लीवितानः
   प्रतिवनमवधूताशेषशाखिप्रसूनः ।
  क्वचिदयमनवस्थः स्थास्नुतामेति वायु-
   र्वधुकुसुमविमर्दोद्गन्धिवेश्मान्तरेषु ॥ २८ ॥

 विलुलितेति ॥ वने वने प्रतिवनम् । याथार्थ्येऽव्ययीभावः। विलुलिता व्यालोलिताः कमलौघा येन सः। कीर्णा विक्षिप्ता वल्लीनां मालत्यादीनां विताना विस्तारा येन सः । अवधूतान्यशेषशाखिनां बकुलचम्पकादीनां प्रसूनानि येन सः । तथापि

क्वचित्पूर्वोक्तकमलवनादौ कुत्रापि नास्त्यवस्था स्थितिरस्येत्यनवस्थः स्थिति-