पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
शिशुपालवधे

  सरभसपरिरम्भारम्भसंरम्भभाजा
   यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।
  वसनमपि निशान्ते नेष्यते तत्प्रदातुं
   रथचरणविशालश्रोणिलोलेक्षणेन ॥ २३ ॥

 सरभसेति ॥ अधिनिशं निशायाम् । विभक्त्यर्थेऽव्ययीभावः । सरभसः सत्वरः परिरम्भ एवारम्भो व्यापारस्तत्र संरम्भस्तद्भाजा वल्लभेनाङ्गनायाः संबन्धि यद्वसनमपास्तं तद्वसनं निशान्ते प्रभातेऽपि रथचरणं चक्रं तद्वद्विशालायां श्रोणौ लोलं सतृष्णमीक्षणं यस्य तेन वल्लभेन प्रदातुं नेष्यते । अत्र वसनाप्रतिदानस्य श्रोणीक्षणलौल्यहेतुकत्वात्काव्यलिङ्गम् ॥ २३ ॥

  सपदि कुमुदिनीभिर्मीलितं हा क्षपापि
   क्षयमगमदपेतास्तारकास्ताः समस्ताः ।
  इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दु-
   र्वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ २४ ॥

 सपदीति ॥ सपदि सद्यः कुमुदिनीभिर्मीलितम् । भावे क्तः । हा हन्त क्षपा रात्रिरपि क्षयमगमत् । ताः समस्तास्तारका अपेता इति शुचा शोकेन चिन्तयन्दयितकलत्रः प्रियभार्य इन्दुः कृशमशेषं निःशेषं यथा तथा भ्रष्टशोभं नष्टप्रभमङ्गं वहति । कलत्रप्रियस्य युगपत्सकलकलत्रनाशे महान् शोको भवतीति भावः । अत्रेन्दोः प्रभातप्रयुक्ताङ्गकार्यशोभाभ्रंशयोर्युगपत्कुमुदिन्यादिसकलकलत्रनाशनिमित्तहेतुकत्वमुत्प्रेक्ष्यते ॥ २४ ॥

  व्रजति विषयमक्ष्णामंशुमाली न याव-
   त्तिमिरमखिलमस्तं तावदेवारुणेन
  परपरिभवि तेजस्तन्वतामाशु कर्तुं
   प्रभवति हि विपक्षोच्छेदमग्रेसरोऽपि ॥ २५ ॥

 व्रजतीति ॥ अंशुमाली सूर्यः । व्रीह्यादित्वादिनिप्रत्ययः । यावदक्ष्णां विषयं भूमिं न व्रजति । न दृश्यत इत्यर्थः । तावदेवारुणेनानूरुणाखिलं तिमिरमस्तमपास्तं परेषां परिभवि तिरस्कारकम् । 'जिदृक्षि-' (३।२।१५७) इत्यादिना इनिप्रत्ययः । तेजः प्रतापं तन्वतां प्रथयतामग्रे सरतीत्यग्रेसरः पुरःसरोऽपि । 'पुरोऽग्रतोऽग्रेषु सर्तेः' (३।२।१८) इति टप्रत्ययः । विपक्षस्य शत्रोरुच्छेदं कर्तुमाशु प्रभवति शक्नोति हि । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ २५ ॥

  विगततिमिरपङ्कं पश्यति व्योम याव-
   द्धुवति विरहखिन्नः पक्षती यावदेव ।