पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ शिशुपालवधे केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः । पापोऽवलिप्सो वृद्धश्च नाऽयं भीष्मोऽर्हति क्षमाम् ॥ हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपाः । सर्वैः समेत्य संरब्धो दह्यतां वा कटाग्निना ॥ इति तेषां वचः श्रुत्वा ततः कुरुपितामहः । उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ॥ उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये । यत्तु वक्ष्यामि तत्सर्व शृणुध्वं वसुधाधिपाः ॥ पशुवद्धातनं वा मे दहनं वा कटाग्निना । क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ॥ ( शिशु०१५॥४६ ) एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः । यस्य वा त्वरते बुद्धिर्मरणाय स माधवम् || कृष्णमाह्वयतामद्य युद्धे चक्रगदाधरम् । यादवस्यैव देवस्य देहं विशतु पातितः ॥ ( इति ४४ अध्यायः । ) वैशम्पायन उवाच - ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः । युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ॥ आह्वये त्वां रणं गच्छ मया सार्ध जनार्दन । यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ॥ सह त्वया हि मे वध्याः सर्वथा कृष्ण पाण्डवाः । नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ॥ ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् । अनर्हमर्हवत्कृष्ण वृध्यास्त इति मे मतिः ॥ एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः । उवाच पार्थिवान्सर्वान्स समक्षं च वीर्यवान् ॥ एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः । सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ॥ प्राग्ज्योतिषपुरं यातानस्माञ्ञ्ज्ञात्वा नृशंसकृत् । अदहद् द्वारकामेष स्वस्त्रीयः सन्नराधिपाः ॥ क्रीडतो भोजराजस्य एष रैवतके गिरौ । हत्वा बध्वा च तान्सर्वानुपायात्स्वपुरं पुरा ॥ अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् । पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ॥ सौवीरान्प्रतियातां च बभ्रोरेष तपस्विनः । भार्यामभ्यहरन्मोहादकामां तामितोगताम् || एष मायाप्रतिच्छन्नः करुषार्थे तपस्विनीम् । जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ॥