पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । ददख मे वरं कृष्ण भयार्ताया महाभुज ॥ त्वं ह्यार्तानां समाश्वासो भीतानामभयप्रदः । एवमुक्तस्ततः कृष्णः सोऽब्रवीद्यदुनन्दनः ॥ मा भैस्त्वं देवि धर्मज्ञे न मत्तोऽस्ति भयं तव । ददामि कं वरं किं च करवाणि पितृष्वसः ॥ शक्यं वा यदि वाऽशक्यं करिष्यामि वचस्तव ॥ एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् ॥ शिशुपालस्याऽपराधान्क्ष मेथास्त्वं महाबल । मत्कृते यदुशार्दूल विद्ध्येनं मे वरं प्रभो ॥ कृष्ण उवाच अपराधशतं मया ह्यस्य पितृष्व । पुत्रस्य ते वधार्हस्य मा त्वं शोके मनः कृथाः ॥ भीष्म उवाच - एवमेष नृपः पापः शिशुपालः सुमन्दधीः । त्वां समाह्वयते वीर गोविन्दवरदर्पितः ॥ ( इति ४३ अध्यायः । ) भीष्म उवाच - नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् । नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ॥ वैशम्पायन उवाच – ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा । उवाच चैनं संक्रुद्धः पुनर्भीष्ममथोत्तरम् ॥ शिशुपाल उवाच- द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः । यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ॥ संस्तवे च मनो भीष्म परेषां रमते यदि । तदा संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ॥ धनुर्धराणां प्रवरं रुक्मिणां पुरुषोत्तमम् । अतिक्रम्य महावीर्य किं प्रशंससि केशवम् ॥ वैशम्पायन उवाच- ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः । उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ॥ इच्छतां किल नामाऽहं जीवाम्येषां महीक्षिताम् । सोऽहं न गणयाम्येतांस्तृणेनापि नराधिपान् ॥ एवमुक्ते तु भीष्मेण ततः संचुक्रुशुर्नृपाः । 3