पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० शिशुपालव गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ॥ नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः । ततश्चेदिपतेर्वाक्यं श्रुत्वा तत्कुरुसत्तमः । भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ॥ ( इति ४२ अध्यायः । ) भीष्म उवाच - चेदिराजकुले जातरुयक्ष एष चतुर्भुजः । रासभारावसदृशं ररास च ननाद च ॥ तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ । वैकृतं तस्य तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ॥ ततः सभायें नृपतिं सामात्यं सपुरोहितम् । चिन्तासंमूढहृदयं वागुवाचाशरीरिणी ॥ एष ते नृपते पुत्रः श्रीमाञ्जातो बलाधिकः । तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ॥ न चैव तस्य मृत्युर्वे न कालः प्रत्युपस्थितः । मृत्युर्हन्ताऽस्य शस्त्रेण स चोत्पन्नो नराधिप || संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः । पुत्रस्नेहाभिसंतप्ता जननी वाक्यमब्रवीत् ॥ येनेदमीरितं वाक्यं ममैतं तनयं प्रति । प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ॥ याथातथ्येन भगवान्देवो वा यदि वेतरः । श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति ॥ अन्तर्भूतं ततो भूतमुवाचेदं पुनर्वचः । यस्योत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ ॥ पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ । तृतीयमेतद्वालस्य ललाटस्थं तु लोचनम् ॥ निमजिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति । त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् ॥ पृथिव्यां पार्थिवाः सर्वे अभ्यागच्छन्दिदृक्षवः । ततश्चेदिपुरीं प्राप्तौ संकर्षणजनार्दनौ ॥ यादवौ यादवीं द्रष्टुं स्वसारं तौ पितुस्तदा । कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ॥ साऽभ्यर्च्य तौ तदा वीरौ प्रीत्या चाऽभ्यधिकं ततः । पुत्रं दामोदरोत्सङ्गे देवी सन्यद्धात्स्वयम् ॥ न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ । पेततुस्तच्च नयनं न्यमज्जत ललाटजम् ॥ तद् दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत ।